Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 290

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ ग꣢मत् ॥२९०॥

उ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣣ । श꣡वि꣢꣯ष्ठः । आ । ग꣣मत् ॥२९०॥

Mantra without Swara
उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥

उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठः । आ । गमत् ॥२९०॥

Samveda - Mantra Number : 290
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) सुखप्रदाता दुःखहर्ता जगदीश्वरः नृपतिश्च (अर्वाक्) अस्मदभिमुखं भवेत्, (च) किं च (नः) अस्माकम् (इदम्) एतत् (उभयम्२) मानसं वाचिकं च यद्वा लिखितं मौखिकं चोभयात्मकम् (वचः) निवेदनम् (शृणवत्) शृणुयात्। श्रु श्रवणे धातोर्लेटि रूपम्। अपि च (मघवान्) सकलैश्वर्यवान् (शविष्ठः३) सर्वाधिकबलशाली स परमेश्वरो नृपतिश्च (सोमपीतये) सोमस्य मानसशान्तेर्बाह्यशान्तेश्च पीतिः रक्षा तदर्थम् (सत्राच्या४) सत्यानुगामिन्या। सत्रा सत्यम् अञ्चति प्राप्नोतीति सत्राची तया। सत्रा इति सत्यनाम। निघं० ३।१०, अञ्चू गतौ। (धियाः) विचारशृङ्खलया सह (आ गतम्) अस्मदन्तिकं समागच्छेत्। आङ् पूर्वाद् गमेर्लिङर्थे लुङ् ‘बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडभावः ॥८॥ अत्र श्लेषालङ्कारः ॥८॥
Essence
यथा परमात्मा मनुष्याणामन्तःकरणे भ्रातृभावस्य शान्तेश्च विचारान् प्रेरयति तथैव राजानः राष्ट्रेषु संसारे च पारस्परिकं विद्वेषं समाप्य शान्तिं वितनुयुः ॥८॥
Subject
अथ परमेश्वरो नृपश्चास्माकं वचः शृणुयादित्याह।
Footnote
१. ऋ० ८।६१।१, अथ० २०।११३।१ उभयत्र ‘मघवान्त्सोमपीतये’ इत्यत्र ‘मघवा सोमपीतये’ इति पाठः। साम० १२३३। २. उभयं स्तुतिं प्रार्थनां च—इति वि०। उभयं स्तोत्रशस्त्रात्मकम् इदं वचः। अपर आह, उभयम् अस्मिन् अहनि क्रियमाणं पूर्वेद्युः कृतं च वचः अहर्गणेषु शृणवदिति। ‘यच्चेदमद्य यदु च ह्य आसीत्’ ऐ० ब्रा० ४।३१।५।१८ इति हि ऐतरेयकम्—इति भ०। ३. बहु शवो बलं विद्यते यस्य स शवस्वान्, सोऽतिशयितः। अत्र शवश्शब्दाद् भूम्न्यर्थे मतुप्, तत इष्ठन्, ‘विन्मतोर्लुक्’ अ० ५।३।६५ इति मतुपो लुक्, ‘टेः’ अ० ६।४।१५५ अनेन टिलोपः—इति य० ६।३७ भाष्ये द०। ४. सत्राच्या सदागत्या—इति वि०। बह्वञ्चन्त्या बहुविषयया धिया युक्तः—इति भ०। अस्माकं यज्ञं पूजयन्त्या धिया युक्तः—इति सा०।