Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 29

1875 Mantra
Devata- अग्निः Rishi- गोपवन आत्रेयः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
तं꣡ त्वा꣢ गो꣣प꣡व꣢नो गि꣣रा꣡ जनि꣢꣯ष्ठदग्ने अङ्गिरः । स꣡ पा꣢वक श्रुधी꣣ ह꣡व꣢म् ॥२९॥

त꣢म् । त्वा꣣ । गो꣣प꣡व꣢नः । गि꣣रा꣢ । ज꣡नि꣢꣯ष्ठत् । अ꣣ग्ने । अङ्गिरः । सः꣢ । पा꣣वक । श्रुधी । ह꣡व꣢꣯म् ॥२९॥

Mantra without Swara
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गिरः । स पावक श्रुधी हवम् ॥

तम् । त्वा । गोपवनः । गिरा । जनिष्ठत् । अग्ने । अङ्गिरः । सः । पावक । श्रुधी । हवम् ॥२९॥

Samveda - Mantra Number : 29
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अङ्गिरः२) मत्प्राणभूत। प्राणो वा अङ्गिराः श० ६।३।७।३। (अग्ने) ज्ञानसूर्य जगन्नेतः परमात्मन् ! (तम्) तादृशं निखिलगुणसमन्वितम् (त्वा) त्वाम् (गोपवनः) गवामिन्द्रियाणां वाचां वा पवनः शोधयिता गो-पवनः पवित्रेन्द्रियः पूतवाक्, यद्वा गाः इन्द्रियाणि पाति रक्षतीति गोपः आत्मा तं वनति सेवते इति गोप-वनः आत्मसेवी स्तोता (गिरा) स्तुतिवाचा वेदवाण्या वा (जनिष्ठत्) जनयति स्वान्तःकरणे प्रकटयति। जनी प्रादुर्भावे धातोर्ण्यन्ताल्लेटि जनिषत् इति प्राप्ते बहुलवचनात् ठकारागमश्छान्दसः। हे (पावक) शुद्धिकर्त्तः देव ! (सः) तादृशस्त्वम् (हवम्) मदीयाह्वानम्। हवं ह्वानमिति निरुक्तम् १०।२ ह्वेञ् धातोः बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणे सति उकारान्तत्वाद् दोरप्।’ अ० ३।३।५७ इत्यप् प्रत्ययः। (श्रुधि) शृणु। श्रु श्रवणे धातोः श्रुशृणुपॄकृवृभ्यश्छन्दसि।’ अ० ६।४।१०२ इति हेर्धिः। अन्येषामपि दृश्यते’ अ० ६।३।१३ इति संहितायां दीर्घः ॥९॥
Essence
परमेश्वरोऽव्यक्तरूपेण सर्वेषां हृदि सन्निविष्टः। तं पवित्रेन्द्रियः पूतवाग् आत्मसेवी जन एव वेदमन्त्रैः स्तुवन् प्रकटयितुं समर्थो भवति। परमेश्वरश्च प्रकटीभूय हृदयं पुनाति ॥९॥
Subject
अथ कस्तं परमात्मानं हृदये प्रकटयतीत्याह।
Footnote
१. ऋ० ८।७४।११ तन्त्वा, जनिष्ठदग्ने इत्यत्र क्रमेण यं त्वा, चनिष्ठदग्ने इति पाठः। २. ‘अङ्गिरः अङ्गानि शरीरावयवाः, तद्वत् अङ्गि शरीरम्, तस्य स्थितिहेतुरशितपीतरसः, तत्करोतीति णिच् अङ्गिरसयति। जाठरो ह्यग्निः अन्नं रसीकरोति। तस्य सम्बोधनं हे अङ्गिरः शरीरस्थितिहेतोरशितपीतरसस्य कर्त्तः इत्यर्थः—इति वि०। अङ्गिरः अङ्गिरसः पुत्रः अङ्गिरसां वा एकोग्निः (ऐ० ब्रा० ६।३४) इति ऐतरेयकम्। अगेर्वा अङ्गिराः। गन्तव्यं सर्वत्र—इति भ०। अङ्गिरः सर्वत्र गन्तः अङ्गिरसां पुत्रो वा—इति सा०।