Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 289

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
पा꣣हि꣡ गा अन्ध꣢꣯सो꣣ म꣢द꣣ इ꣡न्द्रा꣢य मेध्यातिथे । यः꣡ सम्मि꣢꣯श्लो ह꣢र्यो꣣र्यो꣡ हि꣢र꣣ण्य꣢य꣣ इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥२८९॥

पा꣣हि꣢ । गाः । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯ । इ꣡न्द्रा꣢꣯य । मे꣣ध्यातिथे । मेध्य । अतिथे । यः꣢ । स꣡म्मि꣢꣯श्लः । सम् । मि꣣श्लः । ह꣡र्योः꣢꣯ । यः । हि꣣रण्य꣡यः । इ꣡न्द्रः꣢꣯ । व꣣ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥२८९॥

Mantra without Swara
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे । यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥

पाहि । गाः । अन्धसः । मदे । इन्द्राय । मेध्यातिथे । मेध्य । अतिथे । यः । सम्मिश्लः । सम् । मिश्लः । हर्योः । यः । हिरण्ययः । इन्द्रः । वज्री । हिरण्ययः ॥२८९॥

Samveda - Mantra Number : 289
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मेध्यातिथे२) मेध्यः पवित्रः इन्द्रः अतिथिर्यस्य तथाभूत स्तोतः त्वम् (अन्धसः) श्रद्धारसस्य (मदे) आनन्दे मग्नः सन् (इन्द्राय) परमेश्वराय, तस्य आतिथ्यार्थम् इत्यर्थः (गाः३) स्तुतिवाचः (पाहि) पालय। (यः) इन्द्रः परमेश्वरः (हर्योः) मनःप्राणरूपयोः अश्वयोः (संमिश्लः) संमिश्रः तव शरीरे नियोक्ताऽस्ति, (यः) यश्च परमेश्वरः, (हिरण्ययः) ज्योतिर्मयः यशोमयश्चास्ति। ‘ज्योतिर्वै हिरण्यम्’ तां० ब्रा० ६।६।१०। ‘यशो वै हिरण्यम्’ ऐ० ब्रा० ७।१८। यः (इन्द्रः) परमेश्वरः (वज्री) वज्रधरः, वज्रवद् विद्यमानेन आक्रामकेण रक्षकेण च बलेन युक्तः सन् दुर्जनानां दण्डयिता सज्जनानां च रक्षकः, (हिरण्ययः) सत्यरूपस्वर्णालङ्कारालंकृतश्च वर्तते। सत्यं वै हिरण्यम्। गो० उ० ३।१७ ॥७॥ अत्र ‘इन्द्राय गाः पाहि’ इत्यनेन यथा कश्चिद् गृहस्थः विदुषामतिथीनां सत्काराय धेनूः पालयति तथेति उपमालङ्कारो ध्वन्यते। ‘इन्द्रा, इन्द्रो’ इत्यत्र छेकानुप्रासः, ‘हर्यो-र्योहि’ इत्यत्र वृत्त्यनुप्रासः, ‘हिरण्ययं हिरण्ययः’ इति च यमकम् ॥७॥
Essence
अतिथिसत्कारो मनुष्यस्य परमो धर्मः। इन्द्रः परमेश्वरोऽपि मनुष्यस्य हृदयगृहस्यातिथिः। तस्यातिथ्याय तेन श्रद्धारसनिर्भरेण सता स्ततिवाग्रूपोऽर्घ्यः प्रदेयः। स खलु विलक्षणोऽतिथिर्य आतिथेयाय ज्योतिर्यशः सत्यादिरूपं हिरण्यं प्रयच्छति, स्वबलेन तस्य रक्षां करोति, तच्छरीरे मनः प्राणं च संयोज्य तस्मै दीर्घमायुः सामर्थ्यं च ददाति ॥७॥
Subject
अथेन्द्रस्यातिथ्याय प्रेरयति।
Footnote
१. ऋ० ८।३३।४ ‘गा अन्धसो’ इत्यत्र ‘गायान्धसो’, ‘र्यो हिरण्यय इन्द्रो वज्री’ इत्यत्र च ‘र्यः सुते सचा वज्री रथो’ इति पाठः। २. मेध्याः संगमनीयाः पवित्रा अतिथयो यस्य इति ऋ० १।३६।१७ भाष्ये, मेध्यैरतिथिभिर्युक्तोऽध्यापक इति च ऋ० १।३६।१० भाष्ये द०। मेधो यज्ञः, तस्मिन् भवः मेध्यः। मेध्यश्चासावतिथिश्च मेध्यातिथिः। यज्ञेन च अतिथिभूत इत्यर्थः—इति वि०। ३. गा इति गायतेः पञ्चमलकाररूपम्। गाय गीतिं कुरु इन्द्राय—इति भ०।