Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 287

1875 Mantra
Devata- इन्द्रः Rishi- परुच्छेपो दैवोदासिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
श꣡ची꣢भिर्नः शचीवसू꣣ दि꣢वा꣣ न꣡क्तं꣢ दिशस्यतम् । मा꣡ वा꣢ꣳ रा꣣ति꣡रुप꣢꣯ दसत्क꣣दा꣢च꣣ना꣢꣫स्मद्रा꣣तिः꣢ क꣣दा꣢च꣣न꣢ ॥२८७॥

श꣡ची꣢꣯भिः । नः꣣ । शचीवसू । शची । वसूइ꣡ति꣢ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । दि꣣शस्यतम् । मा꣢ । वा꣣म् । रातिः꣢ । उ꣡प꣢꣯ । द꣣सत् । कदा꣢ । च꣣ । न꣣ । अ꣣स्म꣢त् । रा꣣तिः꣢ । क꣣दा꣢ । च꣣ । न꣢ ॥२८७॥

Mantra without Swara
शचीभिर्नः शचीवसू दिवा नक्तं दिशस्यतम् । मा वाꣳ रातिरुप दसत्कदाचनास्मद्रातिः कदाचन ॥

शचीभिः । नः । शचीवसू । शची । वसूइति । दिवा । नक्तम् । दिशस्यतम् । मा । वाम् । रातिः । उप । दसत् । कदा । च । न । अस्मत् । रातिः । कदा । च । न ॥२८७॥

Samveda - Mantra Number : 287
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शचीवसू) कर्मधनौ अश्विनौ२ परमात्मजीवात्मानौ, गुरुशिष्यौ, अध्यापकोपदेशकौ, वैद्यशल्यचिकित्सकौ, राजामात्यौ, सभासेनेशौ च ! युवाम् (शचीभिः) स्वीयैः स्वीयैः कर्मभिः। शची इति कर्मनाम। निघं० २।१। (नः) अस्मभ्यम् (दिवा नक्तम्) अहनि रात्रौ चापि (दिशस्यतम्३) दानं प्रयच्छतम्। अयं दानार्थः दिशस् शब्दः कण्ड्वादिषु पठितव्यः। ‘कण्ड्वादिभ्यो यक्, अ० ३।१।२७’ इति यक्। (वाम्) युवयोः (रातिः) दानम् (कदा च न) कदाचित् (मा उपदसत्) न समाप्येत। उपपूर्वाद् दसु उपक्षये धातोर्लेटि रूपम् तथैव (अस्मत्) अस्मत्सकाशात् (रातिः) दानगुणः (कदा च न) कदाचित्, मा उपदसत् न नश्येत्। वयमपि सततदानरताः भवेमेत्यर्थः •॥५॥४ अत्र ‘शची, शची’ ‘राति, रातिः’, ‘कदा च न, कदा च न’ इति लाटानुप्रासः ॥५॥
Essence
उक्तौ अश्विनौ यथा स्वेन स्वेनाध्यात्मिकेन वा, वैयक्तिकेन वा, सामाजिकेन वा राष्ट्रियेण वा, शिल्पात्मकेन वा, चिकित्सात्मकेन वा दानेनास्मानुपकुर्युः, तथैव वयमपि स्वस्वयोग्यतानुसारमन्यानुपकुर्याम ॥५॥
Subject
अथाश्विनौ देवते। तौ प्रार्थ्येते।
Footnote
१. ऋ० १।१३९।५ ‘दिशस्यतम्’ इत्यत्र ‘दशस्यतम्’ इति पाठः। २. द्रष्टव्यं द० भा०—(अश्विनौ) व्याप्तसकलविद्यौ अध्यापकोपदेशकौ (ऋ० ३।५८।५), राजामात्यौ (ऋ० ४।४।५) वैद्यकविद्याव्यापिनौ भिषजौ (य० २१।३३), सभासेनेशौ (ऋ० १।१२०।१०), शिल्पविद्याध्येत्रध्यापकौ (ऋ० १।८९।४)। ३. ऋग्वेदवद् ‘दशस्यतम्’ इति पाठं मत्वा दशतेर्दानकर्मणः एतद् रूपम्। दत्तमित्यर्थः। यद्यद् वयं प्रार्थयामस्तत्तद् दत्तमित्यर्थः—इति वि०। दशस्यतं प्रयच्छतं धनानि—इति भ०। दिशस्यतं विसृजतम् अभिमतं दत्तमित्यर्थः—इति सा०। (दशस्यतम्) दद्यातम्, अयं दशस् शब्दः कण्ड्वादिषु द्रष्टव्यः इति ऋ० १।१३९।३ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयम् ‘अध्यापकोपदेशकौ सुशिक्षितया वाचाऽहर्निशं विद्या उपदिशेताम्’ इति विषये व्याख्यातः।