Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 286

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यः꣡ स꣢त्रा꣣हा꣡ विच꣢꣯र्षणि꣣रि꣢न्द्रं꣣ त꣡ꣳ हूम꣢हे व꣣य꣢म् । स꣡ह꣢स्रमन्यो तुविनृम्ण सत्पते꣣ भ꣡वा꣢ स꣣म꣡त्सु꣢ नो वृ꣣धे꣢ ॥२८६॥

यः꣢ । स꣣त्राहा꣢ । स꣣त्रा । हा꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । इन्द्र꣣म् । तम् । हू꣣महे । वय꣢म् । स꣡ह꣢꣯स्रमन्यो । स꣡ह꣢꣯स्र । म꣣न्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भ꣡व꣢꣯ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । नः꣣ । वृधे꣢ ॥२८६॥

Mantra without Swara
यः सत्राहा विचर्षणिरिन्द्रं तꣳ हूमहे वयम् । सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥

यः । सत्राहा । सत्रा । हा । विचर्षणिः । वि । चर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् । सहस्रमन्यो । सहस्र । मन्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भव । समत्सु । स । मत्सु । नः । वृधे ॥२८६॥

Samveda - Mantra Number : 286
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) परमात्मा राजा वा (सत्राहा२) सत्रा सत्येन असत्यं हन्ति इति तथाविधः यद्वा, सत्रा सत्येन हन्ति गच्छति व्यवहरतीति सः। सत्रा इति सत्यनाम। निघं० ३।१०। हन हिंसागत्योः। (विचर्षणिः) विशेषेण द्रष्टा च अस्ति। विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११। (तम् इन्द्रम्) विघ्नदुःखादिविदारकं सुखैश्वर्यप्रदं च परमात्मानं राजानं वा (वयम्) प्रजाजनाः (हूमहे) आह्वयामः। ह्वेञ् धातोः ‘बहुलं छन्दसि, अ० २।४।७३’ इति शपो लुकि ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे, पूर्वरूपे ‘हलः’ अ० ६।४।२ इति दीर्घत्वे रूपमिदम्। अत प्रत्यक्षकृतमाह। हे (सहस्रमन्यो३) पापानां पापिनां चोत्सादनार्थम् अनन्तोत्साहयुक्त ! (तुविनृम्ण) बहुबल ! बहुधन ! तुवि इति बहुनाम। निघं० ३।१। नृम्णम् इति बलनाम धननाम च। निघं० २।९, २।१०। (सत्पते) सतां पालक ! त्वम् (समत्सु४) जीवनसंघर्षेषु देवासुरसंग्रामेषु वा। समत्सु इति सङ्ग्रामनामसु पठितम्। निघं० २।१७। ‘समदः समदोः वाऽत्तेः, सम्मदो वा मदतेः’ इति निरुक्तम्। ९।१७। याः प्राप्य क्षत्रियाः संमाद्यन्ति हृष्यन्ति ताः समदः युद्धानि। (नः) अस्माकम् (वृधे) वर्धनाय (भव) वर्त्तस्व •॥४॥ अत्रार्थश्लेषालङ्कारः •॥४॥
Essence
यथा ब्रह्माण्डे परमेश्वरोऽसत्यस्य, हन्ता, सर्वद्रष्टा, पापानामसहनो, बहुबलो, बहुधनः, सतां पालको, देवासुरसंग्रामेषु देवानां विजयप्रदः वर्धयिता च वर्तते तथैव राष्ट्रे राजा भवेत् •॥४॥५
Subject
अथ कीदृशं परमेश्वरं राजानं च वयमाह्वयेम किं च तं याचेमहीत्याह।
Footnote
१. ऋ० ६।४६।३, ऋषिः शंयुः। ‘सहस्रमन्यो’ इत्यत्र ‘सहस्रमुष्क’ इति पाठः। २. यः सत्येन असत्यं हन्ति। इति ऋ० ४।१७।८ भाष्ये द०। सत्राहा सत्येन हन्ता सर्वदा वा हन्ता शत्रुम्—इति वि०। सर्वेषां शत्रूणां हन्ता—इति भ०। महतां शत्रूणां हन्ता—इति सा०। ३. मन्युः मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वा, बहुदीप्ते बहुक्रोध वा—इति वि०। बहुकर्मन्—इति भ०। बहुविधं शत्रुनाशार्थं सहस्रसंख्याककोपयुक्तः, यद्वा मन्युः, क्रतुः सहस्रसंख्याकैः क्रतुभिः पूज्येन्द्र—इति सा०। ४. (समत्सु) धार्मिकाधार्मिकविरोधाख्येषु युद्धेषु इति ऋ० ३।४३।८ भाष्ये द०। ५. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ‘मनुष्याः संग्रामे कथं वर्तेरन्’ इति विषये व्याख्यातवान्।