Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 285

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
सु꣣नो꣡त꣢ सोम꣣पा꣢व्ने꣣ सो꣢म꣣मि꣡न्द्रा꣢य व꣣ज्रि꣡णे꣢ । प꣡च꣢ता प꣣क्ती꣡रव꣢꣯से कृणु꣣ध्व꣢꣯मित्पृ꣣ण꣢न्नित्पृ꣢꣯ण꣣ते꣡ मयः꣢꣯ ॥२८५॥

सु꣣नो꣡त꣢ । सो꣣मपा꣡व्ने꣢ । सो꣣म । पा꣡व्ने꣢꣯ । सो꣡म꣢꣯म् । इ꣡न्द्रा꣢꣯य । व꣣ज्रि꣡णे꣢ । प꣡च꣢꣯त । प꣣क्तीः꣢ । अ꣡व꣢꣯से । कृ꣣णुध्व꣢म् । इत् । पृ꣣ण꣢न् । इत् । पृ꣣णते꣢ । म꣡यः꣢꣯ ॥२८५॥

Mantra without Swara
सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे । पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥

सुनोत । सोमपाव्ने । सोम । पाव्ने । सोमम् । इन्द्राय । वज्रिणे । पचत । पक्तीः । अवसे । कृणुध्वम् । इत् । पृणन् । इत् । पृणते । मयः ॥२८५॥

Samveda - Mantra Number : 285
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मर्त्याः। यूयम् (सोमपाव्ने) सोमम् उपासकानां श्रद्धारसं पिबतीति सोमपावा तस्मै। पा पाने धातोः ‘छन्दसीवनिपौ च वक्तव्यौ, अ० ५।२।१२२’ वा० इति वनिप् प्रत्ययः। (वज्रिणे) पापाचारिणामुपरि दण्डधारिणे (इन्द्राय) जगदीश्वराय (सोमम्) श्रद्धारसं (सुनोत) अभिषुणुत। षुञ् अभिषवे, लोटि ‘तप्तनप्तनथनाश्च, अ० ७।१।४५’ इति तस्य तप्, तस्य च पित्त्वान्ङिद्वत्त्वाभावे गुणनिषधोऽपि न भवति। (पक्तीः) ज्ञानकर्मादीनां परिपाकान् (पचत) पक्त्वा सज्जीकुरुत, (अवसे२) जगदीश्वरस्य प्रीत्यै। अवतिरत्र प्रीतिकर्मा। अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु। (कृणुध्वम् इत्) तान् श्रद्धारसान् ज्ञानकर्मादीनां परिपाकाँश्च तस्मै समर्पयत एव। (पृणते३) समर्पयते दानशीलाय जनाय। पृणातिः दानकर्मा। निघं० ३।२०। शतरि ‘शतुरनुमो नद्यजादी, अ० ६।१।१७३’ इति विभक्तिरुदात्ता। स जगदीश्वरः (मयः) सुखम्। मयस् इति सुखनाम। निघं० ३।६। (पृणन् इत्) प्रयच्छन्नेव भवतीति शेषः ॥३॥४ अत्र ‘पृणन्नित् पृणते मयः’ इति कारणेन सोमसवन-पक्तिपरिपाक-समर्पणरूपस्य कार्यस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः। ‘सोम, सोम’ इति लाटानुप्रासः ‘पृण पृण’ इति च छेकानुप्रासः ॥३॥
Essence
सुखार्थिभिर्जनैः परमेश्वरे श्रद्धा, स्वात्मनि ज्ञानकर्मसत्याहिंसाब्रह्मचर्यादीनां परिपाकश्चावश्यं कर्त्तव्यः ॥३॥
Subject
अथेन्द्राय सोममभिषोतुं प्रेरयति।
Footnote
१. ऋ० ७।३२।८, अथ० ६।२।३। उभयत्र ‘सुनोत’ इत्यस्य स्थाने ‘सुनोता’ इति पाठः। २. अवसे तर्पणार्थमिन्द्रस्य। पक्त्वा च कृणुध्वम् अलङ्करणादिभिः संस्कारैः संस्कुरुध्वम्—इति वि०। अवसे तर्पयितुम् इन्द्रं कृणध्वमित् कुरुतैव कर्माणि। इन्द्रप्रियकराणि कर्माणि च कुरुतैव—इति सा०। ३. पृणते पूरयित्रे—इत वि०। हवींषि दत्तवते यजमानाय—इति भ०। कैश्चित्तु पृणते इति तिङन्तं व्याख्यातम्। तत्र स्वरो न सङ्गच्छते। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘राज्ञा वैद्यैः किं कारयितव्य’मिति विषये व्याख्यातः। ये वैद्याः स्युस्त उत्तमोत्तमान्यौषधानि सर्वान् मनुष्यान् प्रति शिक्षेरन् येन पूर्णं सुखं स्यादिति तदीयोऽभिप्रायः।