Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 284

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
मो꣡ षु त्वा꣢꣯ वा꣣घ꣡त꣢श्च꣣ ना꣢꣫रे अ꣣स्म꣡न्नि री꣢꣯रमन् । आ꣣रा꣡त्ता꣣द्वा सध꣣मा꣡दं꣢ न꣣ आ꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡न्नुप꣢꣯ श्रुधि ॥२८४॥

मा꣢ । उ꣣ । सु꣢ । त्वा꣣ । वाघ꣡तः꣢ । च꣣ । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢त् । नि । री꣣रमन् । आरा꣡त्ता꣢त् । वा꣣ । सधमा꣡द꣢म् । स꣣ध । मा꣡द꣢꣯म् । नः꣣ । आ꣢ । ग꣣हि । इह꣢ । वा꣣ । स꣢न् । उ꣡प꣢꣯ । श्रु꣣धि ॥२८४॥

Mantra without Swara
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥

मा । उ । सु । त्वा । वाघतः । च । न । आरे । अस्मत् । नि । रीरमन् । आरात्तात् । वा । सधमादम् । सध । मादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥२८४॥

Samveda - Mantra Number : 284
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे इन्द्र परमात्मन् ! (वाघतः) अस्माकं शरीरयज्ञस्य ऋत्विजः इन्द्रियमनोबुद्ध्यादयः। वाघतः इति ऋत्विङ्नाम। निघं० ३।१८। (च न२) हि (त्वा) त्वाम् (अस्मत्) अस्मत्तः (आरे) दूरम् (मा उ३ सु) नैव खलु (निरीरमन्४) नितरां रमयन्तु। नि पूर्वाद् रमु क्रीडायाम् धातोर्णिजन्ताल्लुङि छान्दसः अडभावः। इन्द्रियादिभिर्विषयेष्वाकृष्टोऽहं त्वां स्वसकाशाद् दूरं न कुर्यामित्यर्थः। त्वम् (आरात्तात् वा) सुदूरादपि (नः) अस्माकम् (सधमादम्) जीवनयज्ञम् उपासनायज्ञं वा। सह माद्यन्ति हृष्यन्ति जना अत्रेति सधमादो यज्ञः। ‘सधमादस्थयोश्छन्दसि अ० ६।३।९६’ इति सहस्य सधादेशः। (आगहि) आगच्छ। (इह वा सन्) अत्रैवास्माकं हृदये च सन्। वा इति समुच्चयार्थः निरुक्ते प्रोक्तः। निरु० १।५। (उप श्रुधि) अस्माकं स्तुतिं प्रार्थनां च उपशृणु ॥ अत द्वितीयः—नृपतिपरः। हे इन्द्र राजन् ! (वाघतः) मेधाविनो राज्याधिकारिणो राजमन्त्रिनगराधीशप्रभृतयः। वाघतः इति मेधाविनाम। निघं० ३।१५। (चन) नूनम् (त्वा) त्वाम् (अस्मत्) अस्माकं सकाशात् (आरे) दूरे (मा उ सु) नैव (निरीरमन्) नियच्छन्तु, राजानं त्वामस्मभ्यं सुलभं कुर्वन्त्विति भावः। हे राजन् ! (आरात्ताद् वा) सुदूरस्थादपि राजनगरात् त्वम् (नः) अस्माकम् (सधमादम्) यज्ञसमारोहम् (आगहि) आगच्छ। (इह वा सन्) अत्रैवास्माकं मध्ये विराजमानस्त्वम् (उपश्रुधि) अस्माकं सुखदुःखादिनिवेदनं शृणु ॥२॥५ अत्र श्लेषालङ्कारः। रेफस्यासकृदावृत्तौ च वृत्त्यनुप्रासः ॥२॥
Essence
राजराजेश्वरः परमात्मा मानवो नृपतिश्चास्माकं प्रजाजनानां सदा सुलभः सन्नस्माकं सुखदुःखे विजानीयात् ॥२॥
Subject
अथ परमात्मानं राजानं च प्रार्थयते।
Footnote
१. ऋ० ७।३२।१ ‘वाघतश्चनारे’ इत्यविभक्तः पाठः, ‘आरात्ताद्वा’ इत्यत्र ‘आरात्ताच्चित्’ इति पाठः। साम० १६७५। २. च न इति पदपूरणौ—इति वि०। च न अपि च—इति भ०। च न अपि—इति सा०। ३. ऋग्वेदीयपदपाठे ‘मो’ इति, ‘चन’ इति अविभज्य पठितम्। सामपदकारस्तु सर्वानेव संयुक्तान् निपातान् विभज्यैव दर्शयति। ४. मा नियमेन रमयन्तु—इति वि०। मा नितरां रमयन्तु—इति भ०, सा०। ५. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘के दूरे समीपे च रक्षणीयाः’ इति विषये व्याख्यातः, विद्वांसं राजानं च सम्बोधितः।