Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 283

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣त꣢ ऊ꣣ती꣡ वो꣢ अ꣣ज꣡रं꣢ प्रहे꣣ता꣢र꣣म꣡प्र꣢हितम् । आ꣣शुं꣡ जेता꣢꣯र꣣ꣳ हे꣡ता꣢रꣳ र꣣थी꣡त꣢म꣣म꣡तू꣢र्तं तुग्रिया꣣वृ꣡ध꣢म् ॥२८३॥

इ꣣तः꣢ । ऊ꣣ती꣢ । वः꣣ । अजर꣡म्꣢ । अ꣣ । ज꣡र꣢꣯म् । प्रहे꣣ता꣡र꣢म् । प्र । हेता꣡र꣢म् । अ꣡प्र꣢꣯हितम् । अ । प्र꣣हितम् । आशु꣢म् । जे꣡ता꣢꣯रम् । हे꣡ता꣢꣯रम् । र꣣थी꣡त꣢मम् । अ꣡तू꣢꣯र्तम् । अ । तू꣣र्तम् । तुग्रियावृ꣡ध꣢म् । तु꣣ग्रिय । वृ꣡ध꣢꣯म् ॥२८३॥

Mantra without Swara
इत ऊती वो अजरं प्रहेतारमप्रहितम् । आशुं जेतारꣳ हेतारꣳ रथीतममतूर्तं तुग्रियावृधम् ॥

इतः । ऊती । वः । अजरम् । अ । जरम् । प्रहेतारम् । प्र । हेतारम् । अप्रहितम् । अ । प्रहितम् । आशुम् । जेतारम् । हेतारम् । रथीतमम् । अतूर्तम् । अ । तूर्तम् । तुग्रियावृधम् । तुग्रिय । वृधम् ॥२८३॥

Samveda - Mantra Number : 283
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः (वः) यूयम् (ऊती) ऊतये रक्षणाय, अव रक्षणे धातोः क्तिन्नन्ताद् ऊति शब्दाच्चतुर्थ्येकवचने ‘सुपां सुलुक्’ अ० ७।१।३९, इति पूर्वसवर्णदीर्घः। (अजरम्) जरावर्जितम्, जीर्णतारहितं वा (प्रहेतारम्) शुभकर्मसु प्रेरकम्। प्र-पूर्वो हि गतौ वृद्धौ च इति धातोः तृचि रूपम्। (अ-प्रहितम्) स्वयं केनापि अप्रेरितम्, (आशुम्) शीघ्रकारिणम्, न तु व्यर्थमेव कार्याणि लम्बयन्तम्, (जेतारम्) विजयिनम्, (हेतारम्) वर्द्धयितारम्। अत्र हि धातुर्वर्धनार्थो बोध्यः। (रथीतमम्) रंहणशीलानां सूर्यचन्द्रादीनां ब्रह्माण्डरथस्य वा श्रेष्ठं रथिनम् यद्वा श्रेष्ठं रथारोहिणम्। रथशब्दान्मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ। अ० ५।२।१२२’ वा० इति ई प्रत्ययः। अतिशयेन रथीः रथीतमः। (अतूर्तम्) अतूर्णम्, केनापि अहिंसितम्। तुर्वी हिंसायाम्, क्त प्रत्यये छान्दसं रूपम्। (तुग्रियावृधम्२) तुग्रे अन्ने आकाशे यज्ञे वरिष्ठजने वा भवाः तुग्रियाः, क्रमेण अन्नरसाः, मेघोदकानि वायवो वा, फलसाधनत्वानि, धर्माचाराश्च, तेषां वर्धकम् इन्द्रं परमेश्वरम्, यद्वा तुग्रे राष्ट्रयज्ञे भवाः प्रजाः तुग्रियाः तासां वर्धकम् इन्द्रं राजानम्। ‘तुग्राद् घन्। अ० ४।४।११५’ इति तुग्रशब्दाद् भवार्थे घन् प्रत्ययः. अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः इति काशिकावृत्तिः। तुग्रियान् वर्धयतीति तुग्रियावृत् तम्। पूर्वपदान्तस्य दीर्घश्छान्दसः। (इतः३) स्वाभिमुखं कुरुतेति शेषः ॥१॥ अत्र श्लेषालङ्कारः। तकारस्य रेफस्य चासकृदावृत्तौ, तारस्य त्रिधावृत्तौ, ‘तम, मतू’ इत्यत्र च वृत्त्यनुप्रासः ‘प्रहेता, प्रहित’ इत्यत्र छेकानुप्रासः ‘हेतारं’ इत्यस्यावृत्तौ यमकम् ॥१॥
Essence
मनुष्यैः सांसारिकविषयविलासेष्वति प्रवृत्तिं परिहाय विविधगुणगणविशिष्टं परमेश्वरमुपास्य राजानं च प्रजानुकूलं विधायाभ्युदयनिःश्रेयससिद्धिः कार्या ॥१॥
Subject
तत्रादौ परमेश्वरस्य नृपतेश्च गुणा वर्ण्यन्ते।
Footnote
१. ऋ० ८।९९।७, अथ० २०।१०५।३। उभयत्र ‘तुग्रियावृधम्’ इत्यस्य स्थाने ‘तुग्र्यावृधम्’ इति पाठः। २. तुग्रिया इत्युदकनाम, तस्य संवर्धनम्। उदकस्य वर्धयितारमित्यर्थः—इति वि०। तदेव भरतस्वामिसायणयोरभिमतम्। ३. नृमेधः इतो द्युलोकात्, आह्वयतीति वाक्यशेषः—इति वि०। इतः इतोमुखाः, हवामहे इति शेषः—इति भ०। इतः कुरुत—इति सा०। केचित्तु ‘इत ऊती’ इत्यत्र प्रकृतिभावं मत्वा ‘इत गच्छत’ इति इण् धातोर्लोटि मध्यमबहुवचनत्वेन व्याचक्षिरे। तत्तु पदकारस्य न सम्मतम्, पदपाठे ‘इतः ऊती’ इति दर्शनात्।