Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 282

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्र꣣ ने꣡दी꣢य꣣ ए꣡दि꣢हि मि꣣त꣡मे꣢धाभिरू꣣ति꣡भिः꣢ । आ꣡ शं꣢तम꣣ शं꣡त꣢माभिर꣣भि꣡ष्टि꣢भि꣣रा꣡ स्वा꣢꣯पे꣢꣯ स्वा꣣पि꣡भिः꣢ ॥२८२॥

इ꣡न्द्र꣢꣯ । ने꣡दी꣢꣯यः । आ । इत् । इ꣣हि । मित꣡मे꣢धाभिः । मि꣣त꣢ । मे꣣धाभिः । ऊति꣡भिः꣢ । आ । श꣣न्तम । श꣡न्त꣢꣯माभिः । अ꣣भि꣡ष्टि꣢भिः । आ । स्वा꣢पे । सु । आपे । स्वापि꣡भिः꣢ । सु꣣ । आपि꣡भिः꣢ । ॥२८२॥

Mantra without Swara
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥

इन्द्र । नेदीयः । आ । इत् । इहि । मितमेधाभिः । मित । मेधाभिः । ऊतिभिः । आ । शन्तम । शन्तमाभिः । अभिष्टिभिः । आ । स्वापे । सु । आपे । स्वापिभिः । सु । आपिभिः । ॥२८२॥

Samveda - Mantra Number : 282
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमेश्वर राजन् विद्वन् वा ! त्वम् (मितमेधाभिः२) परिपूर्णप्रज्ञाभिः (ऊतिभिः) रक्षाभिः सह (नेदीयः इत्) अस्माकं निकटतरम् एव। अन्तिक शब्दादीयसुनि ‘अन्तिकबाढयोर्नेदसाधौ’ अ० ५।३।६३ इति अन्तिकस्य नेदादेशः। (आ इहि) आगच्छ। हे (शन्तम) अतिशयेन सुखयितः ! त्वम् (शन्तमाभिः) अतिशयेन सुखयित्रीभिः (अभिष्टिभिः३) प्राप्तिभिः सह। इष्टिः प्राप्तिः, इष गतौ। अभि पूर्वात् ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’। अ० ६।१।९४ वा० इति पररूपम्। (आ) आ इहि आगच्छ। हे (स्वापे) सुबन्धुभूत ! त्वम् (स्वापिभिः) सुबन्धुत्वैः सह (आ) आ इहि आगच्छ। उपसर्गावृत्तेः क्रियापदावृत्तिः स्वत एव भवतीति वैदिकभाषायाः शैली ॥१०॥ अत्र अर्थश्लेषालङ्कारः। दकारतकारमकारणाम् ‘भि’ इत्यस्य चावृत्तौ, ‘रभि-भिरा’ इत्यत्र च वृत्त्यनुप्रासः। ‘शन्तम, शन्तमा’, ‘स्वापे, स्वापि’ इत्यत्र च छेकानुप्रासः ॥१०॥
Essence
यथा परमेश्वरस्य रक्षा मेधापूर्णा दानानि कल्याणकराणि बन्धुत्वानि च शुभानि भवन्ति, तथैव नृपतेर्विदुषोऽध्यापकस्य चापि भवेयुः ॥१०॥ अत्रेन्द्रनाम्ना परमेश्वरनृपत्याचार्यादीनां गुणकर्मस्वभावमुपवर्ण्य ततोऽभयादियाचनात्, सूर्यनाम्नापि तत्सवनात्, श्रद्धादेरपि महत्त्ववर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति तृतीयप्रपाठके द्वितीयार्धे चतुर्थी दशतिः ॥ इति तृतीयाध्याये पञ्चमः खण्डः ॥
Subject
अथेन्द्रनाम्ना परमेश्वरनृपविद्वदादय आहूयन्ते।
Footnote
१. ऋ० ८।५३।५, ऋषिः मेध्यः काण्वः। २. मितः प्रक्षिप्तो मेधो यज्ञो यासु ऊतिषु ताः मितमेधाः ताभिः—इति वि०। निर्मितयज्ञाभिः निर्मितयज्ञभागाभिः ऊतिभिः मरुद्भिः सह—इति भ०। परिमितप्रज्ञाभिः ऊतिभिः रक्षाभिः। यद्वा निर्मितयज्ञाभिः मरुद्भिः सह—इति सा०। ३. आभिमुख्येन इज्यन्ते यासु देवतास्ता अभिष्टयः इष्टय इत्यर्थः—इति वि०। त्वम् अभिगच्छन्तीभिः ऊतिभिः सह—इति भ०। प्राप्तिभिः अभिमताभिर्वा—इति सा०।