Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 280

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क꣡स्तमि꣢꣯न्द्र त्वा वस꣣वा꣡ मर्त्यो꣢꣯ दधर्षति । श्र꣣द्धा꣡ हि ते꣢꣯ मघव꣣न्पा꣡र्ये꣢ दि꣣वि꣡ वा꣣जी꣡ वाज꣢꣯ꣳ सिषासति ॥२८०॥

कः꣢ । तम् । इ꣣न्द्र । त्वावसो । त्वा । वसो । आ꣢ । म꣡र्त्यः꣢꣯ । द꣣धर्षति । श्रद्धा꣢ । श्र꣣त् । धा꣢ । हि । ते꣣ । मघवन् । पा꣡र्ये꣢꣯ । दि꣣वि꣢ । वा꣣जी꣢ । वा꣡ज꣢꣯म् । सि꣣षासति ॥२८०॥

Mantra without Swara
कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति । श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजꣳ सिषासति ॥

कः । तम् । इन्द्र । त्वावसो । त्वा । वसो । आ । मर्त्यः । दधर्षति । श्रद्धा । श्रत् । धा । हि । ते । मघवन् । पार्ये । दिवि । वाजी । वाजम् । सिषासति ॥२८०॥

Samveda - Mantra Number : 280
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (त्वावसो२) अपरस्य कस्यचिद् वासकस्याभावात् त्वमेव वसुः वासको यस्य तथाविध, स्वात्मनिर्भर इत्यर्थः। (इन्द्र) परमात्मन् ! (कः मर्त्यः कः) मनुष्यः, न कोऽपीत्यर्थः (तम् आदधर्षति) तम् आधर्षितुम् उत्सहते। आङ्पूर्वस्य धृष प्रसहने इत्यस्य सन्नन्तं रूपमिदम्। यः हे (मघवन्) ऐश्वर्यवन् (पार्ये दिवि) पारयितव्ये सम्पूर्णे दिने। दिवा दिवेदिवे इति दिननामसु पठितत्वात्, निघं० १।९, दिव् शब्दः दिनवाचकः। (ते) त्वां प्रति (श्रद्धा३ हि) श्रद्धया श्रद्धाधारणेन खलु। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति तृतीयाया आकारादेशः। (वाजी) अन्नधनविद्याध्यात्मबलादिमान् सन् (वाजम्) अन्नधनविद्याध्यात्मबलादिकम् (सिषासति) अन्येभ्यः सनितुं दातुमिच्छति। षणु दाने, तनादेः सनि रूपम् ॥८॥४
Essence
यो दिवानिशं परमेश्वरे श्रद्धां विधाय तत्कृपयाऽऽन्नधनविद्याबलवेगादिकं प्राप्य सत्पात्रेभ्यस्तद् ददाति तं परोपकारिणं सर्वे जना आद्रियन्ते ॥८॥
Subject
अथ परमेश्वरे श्रद्धया किं प्राप्यत इत्याह।
Footnote
१. ऋ० ७।३२।१४ ‘त्वावसवा’ ‘हिते’ इत्यत्र क्रमेण ‘त्वावसुमा’ ‘इत्ते’ इति पाठः। साम० १६८२। २. त्वमेव वसु धनं यस्य स त्वावसुः। हे त्वद्धन। सम्बुद्ध्येकवचनं च द्वितीयैकवचनस्य स्थाने द्रष्टव्यम्। त्वावसुम्। त्वद्धनमित्यर्थः—इति वि०। ‘त्वा त्वाम् आदधर्षति आधर्षति आधर्षयेत् हे वसो व्यापक इन्द्र’—इति भरतस्वामिनः, ‘हे वसो वासक व्यापक वा हे इन्द्र तं प्रसिद्धं त्वा त्वाम्’ इति सायणस्य च व्याख्यानं चिन्त्यं पदकारविरोधात् स्वरविरोधाच्च। ३. श्रद्धा सत्यमित्यर्थः—इति वि०। श्रद्धा श्रद्धया—इति भ०। श्रद्धया युक्तः—इति सा०। ४. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रो राजप्रजाविषये व्याख्यातः, इन्द्रपदेन च धार्मिको राजा गृहीतः।