Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 28

1875 Mantra
Devata- अग्निः Rishi- शुनः शेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
इ꣣म꣢मू꣣ षु꣢꣫ त्वम꣣स्मा꣡क꣢ꣳ स꣣निं꣡ गा꣢य꣣त्रं꣡ नव्या꣢꣯ꣳसम् । अ꣡ग्ने꣢ दे꣣वे꣢षु꣣ प्र꣡ वो꣢चः ॥२८॥

इ꣣म꣢म् । उ꣣ । सु꣢ । त्वम् । अ꣣स्मा꣡क꣢म् । स꣣नि꣢म् । गा꣣यत्र꣢म् । न꣡व्याँ꣢꣯सम् । अ꣡ग्ने꣢꣯ । दे꣣वे꣡षु꣢ । प्र । वो꣣चः ॥२८॥

Mantra without Swara
इममू षु त्वमस्माकꣳ सनिं गायत्रं नव्याꣳसम् । अग्ने देवेषु प्र वोचः ॥

इमम् । उ । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्याँसम् । अग्ने । देवेषु । प्र । वोचः ॥२८॥

Samveda - Mantra Number : 28
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अनन्तविद्यामय जगदीश्वर ! (त्वम्) सर्वमङ्गलप्रदस्त्वम् (इमम् उ) एतं खलु (अस्माकम्) मनुष्याणाम् (सनिम्) बहुबोधप्रदम्। सनोति ददाति बहून् कर्त्तव्यबोधानिति सनिः। षणु दाने धातोः खनिकष्यत्रिज्यसिवसिवनिसनि०’ उ० १।१४१ इति इः प्रत्ययः। (नव्यांसम्) नवीयांसम्। नित्यनवीनतरमिति यावत्। नवशब्दाद् ईयसुनि ईकारलोपश्छान्दसः। (गायत्रम्) गायत्र्यादिच्छन्दोऽन्वितं वेदचतुष्टयम् (देवेषु) दिव्यगुणयुक्तेषु विद्वत्सु ऋषिषु (सुप्रवोचः) प्रतिकल्पं सृष्ट्यादौ समुपदिशसि। प्रावोचः इति प्राप्ते बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडागमो न। लडर्थे लुङ् ॥८॥२
Essence
जगत्पिता परमकारुणिकः परमेश्वरो मनुष्याणां कर्त्तव्योपदेशाय प्रतिकल्पं महर्षीणां हृदयेषु चतुरो वेदानुपदिशति, यानधीत्य वयं ज्ञानिनो भवाम इति तस्य महतीं कृपां को नाभिनन्देत् ॥८॥
Subject
परमात्मैव सृष्ट्यादौ वेदविज्ञानं प्रवक्तीत्याह।
Footnote
१. ऋ० १।२७।४, साम० १४९७। २. ऋग्भाष्ये दयानन्दर्षिरपि मन्त्रमेतं परमेश्वरतः सृष्ट्यादौ वेदचतुष्टयप्रवचनविषये व्याख्यातवान्।