Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 279

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡दि꣢न्द्र꣣ प्रा꣢꣫गपा꣣गु꣢द꣣꣬ग्न्य꣢꣯ग्वा हू꣣य꣢से꣣ नृ꣡भिः꣢ । सि꣡मा꣢ पु꣣रू꣡ नृषू꣢꣯तो अ꣣स्या꣢न꣣वे꣢ऽसि꣢ प्रशर्ध तु꣣र्व꣡शे꣢ ॥२७९॥

य꣢त् । इ꣣न्द्र । प्रा꣢क् । अ꣡पा꣢꣯क् । अ꣡प꣢꣯ । अ꣣क् । उ꣡द꣢꣯क् । उत् । अ꣣क् । न्य꣢꣯क् । नि । अ꣣क् । वा । हूय꣡से꣢ । नृ꣡भिः꣢꣯ । सि꣡म꣢꣯ । पु꣣रू꣢ । नृ꣡षू꣢꣯तः । नृ । सू꣣तः । असि । आ꣡न꣢꣯वे । अ꣡सि꣢꣯ । प्र꣣शर्ध । प्र । शर्द्ध । तु꣡र्वशे꣢ ॥२७९॥

Mantra without Swara
यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः । सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥

यत् । इन्द्र । प्राक् । अपाक् । अप । अक् । उदक् । उत् । अक् । न्यक् । नि । अक् । वा । हूयसे । नृभिः । सिम । पुरू । नृषूतः । नृ । सूतः । असि । आनवे । असि । प्रशर्ध । प्र । शर्द्ध । तुर्वशे ॥२७९॥

Samveda - Mantra Number : 279
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यस्मात्, हे (इन्द्र) जगदीश्वर ! त्वम् (प्राक्) पूर्वस्यां दिशि, (अपाक्) पश्चिमायां दिशि, (उदक्) उत्तरस्यां दिशि, (न्यक्२ वा) दक्षिणस्यां दिशि च। वा इति समुच्चयार्थो निरुक्ते प्रोक्तः। निरु० १।५। (नृभिः) स्तोतृजनैः (हूयसे) आहूयसे, गीयसे इत्यर्थः, (तत्) तस्मात् (नृषूतः३) नृभिः तैः स्तोतृभिः सूतः प्रेरितः प्रचारितः त्वम्। सूतः इति षू प्रेरणे इत्यस्य रूपम्। संहितायां ‘पूर्वपदात्। अ० ८।३।१०६’ इति मूर्धन्यादेशः। (पुरु) बहुषु रूपेषु, संहितायां छान्दसो दीर्घः। (सिमा४) सिमस्मिन् सर्वत्र। सिम इति सर्वनाम सर्वपर्यायः। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सप्तम्या आकारादेशः। (आनवे) अनिति प्राणिति इति अनुः, प्रशस्तप्राणो जनः, तस्यापत्ये मानवसन्ततौ इत्यर्थः। अनुरिति मनुष्यनाम। निरु० २।३। (असि) विद्यसे, विदितो भवसि। किञ्च, हे (प्रशर्ध) प्रकर्षेण शर्धयितः पराभिभावुक ! प्र पूर्वस्य शृधु प्रसहने इत्यस्य रूपम्। त्वम् (तुर्वशे) यः तुर्वति हिनस्ति विघ्नबाधाजालं स तुर्वशः पुरुषार्थी जनः तस्मिन्, तत्साहाय्यार्थमित्यर्थः। तुर्वश इति मनुष्यनाम। निघं० २।३। तुर्वी हिंसार्थः ततः अशच् प्रत्ययः, (असि) तत्साहाय्यार्थं विद्यमानो भवसि ॥७॥
Essence
दिशि दिशि परमात्मनः प्रचारोऽस्माभिर्विधेयः, तदैव मानवजातेः कल्याणं भवितुमर्हति ॥७॥ अत्र सायणस्य ‘आनवे अनुर्नाम राजा तस्य पुत्रे राजर्षौ’, ‘तुर्वशे एतत्संज्ञे च राजनि’ इति व्याख्यानं न समञ्जसं, सृष्ट्यादौ प्रादुर्भूतेषु वेदेषु पश्चाद्वर्तिनो मानवेतिहासस्यासंभवात्, निघण्टौ च अनु-तुर्वशयोः मनुष्यनामसु पाठात् ॥
Subject
अथ दिशि दिशि परमेश्वरो नृभिराहूयत इत्याह।
Footnote
१. ऋ० ८।४।१, अथ० २०।१२०।१। उभयत्र ‘दुदग्’ इत्यत्र ‘दुदङ्’ इति पाठः। साम० १२३१। २. न्यक् न्यूने अधस्तात्—इति वि०। दक्षिणतः—इति भ०। नीच्यां दिशि अधस्ताद् वर्तमानैः—इति सा०। ३. पुरुभिः नृभिर्मनुष्यैः सूतः। षू प्रेरणे इत्येतस्य कृतादिषत्वं रूपम्। सूतः दानाय प्रेरितः—इति वि०। नृभिः स्तोतृभिः प्रेरितः त्वम्। षू प्रेरणे—इति भ०। ४. सिम सर्वरूप—इति वि०। भरतेन ‘सिम’ इति क्रियापदं स्वीकृतम्। बध्नीम त्वां स्तुतिभिः इति।