Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 278

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡द्द्याव꣢꣯ इन्द्र ते श꣣त꣢ꣳ श꣣तं꣡ भूमी꣢꣯रु꣣त꣢ स्युः । न꣡ त्वा꣢ वज्रिन्त्स꣣ह꣢स्र꣣ꣳ सू꣢र्या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢ष्ट꣣ रो꣡द꣢सी ॥२७८॥

य꣢त् । द्या꣡वः꣢꣯ । इ꣣न्द्र । ते । शत꣢म् । श꣣त꣢म् । भू꣡मीः꣢꣯ । उ꣣त꣢ । स्युः । न । त्वा꣣ । वज्रिन् । सह꣡स्र꣢म् । सू꣡र्याः꣢꣯ । अ꣡नु꣢꣯ । न । जा꣣त꣢म् । अ꣣ष्ट । रो꣡द꣢꣯सी꣣इ꣡ति꣢ ॥२७८॥

Mantra without Swara
यद्द्याव इन्द्र ते शतꣳ शतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्या अनु न जातमष्ट रोदसी ॥

यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युः । न । त्वा । वज्रिन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसीइति ॥२७८॥

Samveda - Mantra Number : 278
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वज्रिन्) वज्रधर इव सर्वेषां सूर्यचन्द्रपर्जन्यादीनां यथानियमं संचालयितः (इन्द्र) महामहिम परमेश्वर ! (यत्) यदि (ते) तव, त्वद्रचिता इत्यर्थः (द्यावः) द्युलोकाः (शतम्) शतसंख्यकाः, (उत) अपि च (भूमीः) भूमयः। भूमि शब्दाज्जसि भूमयः इति प्राप्ते पूर्वसवर्णदीर्घः। (शतम्) शतसंख्यकाः (स्युः) भवेयुः, किं च (सूर्याः) आदित्याः (सहस्रम्) सहस्रसंख्यकाः स्युः, तथापि (त्वा) त्वाम् (न) नैव (अनु२) अन्वश्नुवते, (न) नैव (रोदसी) रोदस्योः द्यावापृथिव्योर्मध्ये। सप्तमीद्विवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घादेशः। (जातम्) उत्पन्नं वायुपर्जन्यगिरिनिर्झरसरित्सागरादिकं सर्वमपि (अष्ट) आष्ट, महिम्ना त्वाम् अश्नुते। अशू व्याप्तौ धातोर्लडर्थे लुङि अनिट्पक्षे छन्दसि आडागमाभावे प्रथमपुरुषैकवचने रूपम्। तव महिमा सर्वातिशायी वर्तत इति भावः। ऋषिरप्याह—ज्यायान् पृथिव्या ज्यायानन्तरिक्षाद् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः। छा० उ० ३।१४।३ इति ॥६॥ अत्र द्युभूमिसूर्याणां शतसहस्रसंख्याऽसम्बन्धेऽपि तत्सम्बन्धवर्णनाद् असम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः।३ किञ्च, उपमानेभ्य उपमेयस्याधिक्यवर्णनाद् व्यतिरेकोऽपि४। ‘शतं, शतं’ इत्यत्र च लाटानुप्रासः ॥६॥
Essence
उषाः सूर्यश्चन्द्रस्तारका भूमिर्नद्यः पर्वताः समुद्रा वृक्षा वनस्पतयोऽहोरात्रा ऋतवः संवत्सरः सर्वाण्येतानि शत-सहस्र-लक्षसंख्यान्यपि भूत्वा परमेश्वरस्य महिमानं नाप्तुं शक्नुवन्ति ॥६॥
Subject
अथ परमेश्वरस्य महिमानमाह।
Footnote
१. ऋ० ८।७०।५, साम० ८६२, अथ० २०।८१।१, २०।९२।२०। २. अनु पश्चात् न्यूनमित्यर्थः—इति वि०। ते सर्वे न त्वा अनु अष्ट न अन्वश्नुवते। अश्नोतेर्व्यत्ययेन लट्, प्रथमपुरुषबहुवचनस्य एकवचने रूपम् अष्टेति। नैवानु व्याप्नुवन्ति—इति भ०। ३. सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते। भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ पौर्वापर्वात्ययः कार्यहेत्वो, सा पञ्चधा ततः ॥ सा० द० १०।४६, ४७ इति तल्लक्षणात्। ४. उपमानाद् यदन्यस्य व्यतिरेकः स एव सः। का० प्र० १०।१०५ इति तल्लक्षणात्।