Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 277

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣श्वी꣢ र꣣थी꣡ सु꣢रू꣣प꣢꣫ इद्गोमा꣣ꣳ य꣡दि꣢न्द्र ते꣣ स꣡खा꣢ । श्वा꣣त्रभा꣢जा꣣ व꣡य꣢सा सचते꣣ स꣡दा꣢ च꣣न्द्रै꣡र्या꣣ति स꣣भा꣡मु꣢꣯प ॥२७७॥

अ꣣श्वी꣢ । र꣣थी꣢ । सु꣣रूपः꣢ । सु꣣ । रूपः꣢ । इत् । गो꣡मा꣢꣯न् । यत् । इ꣣न्द्र । ते । स꣡खा꣢꣯ । स । खा꣣ । श्वात्रभा꣡जा꣢ । श्वा꣣त्र । भा꣡जा꣢꣯ । व꣡य꣢꣯सा । स꣣चते । स꣡दा꣢꣯ । च꣣न्द्रैः꣢ । या꣣ति । सभा꣢म् । स꣣ । भा꣢म् । उ꣡प꣢꣯ ॥२७७॥

Mantra without Swara
अश्वी रथी सुरूप इद्गोमाꣳ यदिन्द्र ते सखा । श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ॥

अश्वी । रथी । सुरूपः । सु । रूपः । इत् । गोमान् । यत् । इन्द्र । ते । सखा । स । खा । श्वात्रभाजा । श्वात्र । भाजा । वयसा । सचते । सदा । चन्द्रैः । याति । सभाम् । स । भाम् । उप ॥२७७॥

Samveda - Mantra Number : 277
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) दुःखविदारक, सुखप्रद, परमैश्वर्यवन् जगदीश्वर नृपते आचार्य वा ! (यत्) यदा कश्चित् (ते) तव (सखा) मित्रम् जायते तदा सः (अश्वी) प्रशस्ताश्वः, प्रशस्तमनःप्राणेन्द्रियो वा, (रथी) प्रशस्तभूजलान्तरिक्षयानः, प्रशस्तमानवदेहरूपरथो वा, (सुरूपः) प्रशस्तकान्तिः, प्रशस्तगुणो वा, (गोमान्) प्रशस्तधेनुः, प्रशस्तभूमिः, प्रशस्तवागादिर्वा (इत्) निश्चयेन, भवतीति शेषः। सः (सदा) सर्वदा (श्वात्रभाजा२) श्वात्रं धनं विज्ञानं त्वरितं कर्म वा भजते इति श्वात्रभाक् तेन। श्वात्रम् इति धननाम। निघं० २।१०। श्वात्रतिः गतिकर्मा। निघं० २।१४। गत्यर्थाद् विज्ञानं गृह्यते। गतेस्त्रयोऽर्था ज्ञानं गमनं प्राप्तिश्चेत्यतः। श्वात्रमिति क्षिप्रनाम, आशु अतनं भवति। निरु० ५।३। तेन क्षिप्रं कर्म गृह्यते। (वयसा) आयुषा (सचते) समवैति, संयुज्यते। षच समवाये, भ्वादिः। किञ्च (चन्द्रैः३) चन्द्रवदाह्लादकैर्गुणैः सह। चदि आह्लादे धातोः ‘स्फायितञ्चि०। उ० २।१३’ इति रक् प्रत्ययः। (सभाम्) प्रजासभां, विद्वत्सभां, राजसभां च (उप याति) उपगच्छति ॥५॥ अत्र श्लेषालङ्कारः ॥५॥
Essence
यो जनः परमात्मना नृपतिनाऽऽचार्येण च सान्निध्यं प्राप्नोति स पुरुषार्थी, बलवान्, वाग्मी, जितेन्द्रियो, मेधावी, रथवान्, अश्ववान्, गोमान्, प्राणवान्, धनवान्, विज्ञानवान्, कर्मवान्, गुणवान्, आयुष्मान् भूत्वा जनानां नेतृत्वमुद्वहन् जनसभासु विद्वत्सभासु राजसभासु च प्रतिष्ठां लभते ॥५॥
Subject
अथ परमात्मनृपत्याचार्याणां सख्यस्य फलमाह।
Footnote
१. ऋ० ८।४।९ ‘गोमाँ इदिन्द्र’ ‘चन्द्रो याति’ इति पाठः। २. श्वात्रमिति क्षिप्रनाम। क्षिप्रं यत् सम्भजते तत् श्वात्रभाक्, तेन श्वात्रभाजा, क्षिप्रं संभजता इत्यर्थः, वयसा अन्नेन—इति वि०। श्वात्रं सुखं तद्भाजा वयसा अन्नेन—इति भ०। ३. चन्द्रैः श्वेतैः अश्वैः—इति वि०। हिरण्यैः युक्तः सन्—इति भ०। सर्वेषामाह्लादकैः स्तोत्रैः युक्तः सन्—इति सा०।