Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 276

1875 Mantra
Devata- इन्द्रः Rishi- जमदग्निर्भार्गवः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ब꣢ण्म꣣हा꣡ꣳ अ꣢सि सू꣣र्य ब꣡डा꣢दित्य म꣣हा꣡ꣳ अ꣢सि । म꣣ह꣡स्ते꣢ स꣣तो꣡ म꣢हि꣣मा꣡ प꣢निष्टम म꣣ह्ना꣡ दे꣢व म꣣हा꣡ꣳ अ꣢सि ॥२७६॥

ब꣢ट् । म꣣हा꣢न् । अ꣢सि । सूर्य । ब꣢ट् । आ꣣दित्य । आ । दित्य । महा꣢न् । अ꣣सि । महः꣢ । ते꣣ । सतः꣢ । म꣢हिमा꣢ । प꣣निष्टम । मह्ना꣢ । दे꣣व । महा꣢न् । अ꣣सि ॥२७६॥

Mantra without Swara
बण्महाꣳ असि सूर्य बडादित्य महाꣳ असि । महस्ते सतो महिमा पनिष्टम मह्ना देव महाꣳ असि ॥

बट् । महान् । असि । सूर्य । बट् । आदित्य । आ । दित्य । महान् । असि । महः । ते । सतः । महिमा । पनिष्टम । मह्ना । देव । महान् । असि ॥२७६॥

Samveda - Mantra Number : 276
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (बट्) सत्यम्। बट् इति सत्यनाम। निघं० ३।१०। हे (सूर्य२) यः सरति व्याप्नोति जानाति वा, सुवति उत्पादयति वा सर्वं जगत्, यद्वा सुष्ठु ईरयति कम्पयति दुष्टजनान् स सूर्यः तादृश, यद् वा सूर्य इव प्रकाशमान सर्वप्रकाशक जगदीश्वर ! सूर्यः सर्त्तेर्वा सुवतेर्वा स्वीर्यतेर्वा। निरु० १२।१४। त्वम् (महान्) सकल-ब्रह्माण्डव्यापित्वाद् सुमहान् (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य३) अदितेः पुत्र ! अविनाशिस्वरूप परमात्मन् ! दितिर्विनष्टिः, दो अवखण्डने, अदितिः अविनष्टिः, तस्याः पुत्रः, अतिशयेन अविनश्वरः इत्यर्थः। त्वम् (महान्) परममहिमोपेतः (असि) वर्तसे। हे (पनिष्टम४) अतिशयस्तुतिपात्र परब्रह्म परमेश्वर ! पन्यते स्तूयते इति पनिः, पण व्यवहारे स्तुतौ च बाहुलकादौणादिक इसिन् प्रत्ययः, अतिशयेन पनिः पनिष्टमः। (महः) महतः (सतः) सत्यस्वरूपस्य (ते) तव (महिमा) महत्त्वगुणः (महान्) अपारः अस्ति। हे (देव) दानादिगुणयुक्त ! (मह्ना) महिम्ना, त्वम् (महान्) सर्वातिशायी (असि) विद्यसे ॥५ अथ द्वितीयः—नृपतिपरः। (बट्) सत्यम्, हे (सूर्य) स्वराष्ट्रे सूर्यवद् विद्याप्रकाशप्रसारक राजन् ! त्वम् (महान्) दिग्विजेता (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य) अदितिः पृथिवी राष्ट्रभूमिः, तस्याः पुत्र ! राष्ट्रवासिभिर्मतप्रदानद्वारा राष्ट्रभूमेर्गर्भादेव निर्वाचितत्वात् तस्य राष्ट्रभूमेः पुत्रत्वम्। त्वम् (महान्) प्रजापालनरूपमहाकर्मवान् (असि) वर्तसे। हे (पनिष्टम) अतिशयव्यवहारवित् ! (महः सतः) प्रजायाः पूज्यस्य सतः। मह पूजायाम् धातोः क्विबन्तस्य मह् शब्दस्य षष्ठ्येकवचने रूपम्। (ते) तव (महिमा) गरिमा (महान्) अभ्यधिकः अस्ति, सकलदेवानां गुणांशभूतत्वात्। यथाह मनुः—इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च। चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ (मनु० ७।४) इत्यादि। हे (देव) प्रजानां सुखदातः ! त्वम् (मह्ना) गुणगौरवेण (महान्) मंहनीयकीर्तिः (असि) भवसि ॥ अथ तृतीयः—आचार्यपरः। (बट्) सत्यम्, हे (सूर्य) प्रकाशमयः सूर्यः इव विद्याप्रकाशपूर्ण आचार्यप्रवर ! त्वम् (महान्) महापाण्डित्ययुक्तः (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य) आदित्यब्रह्मचारिन् ! त्वम् (महान्) महाव्रतः (असि) वर्तसे। हे (पनिष्टम) अतिशयेन विद्याव्यवहारज्ञातः ! (महः सतः) शिष्याणां पूज्यस्य (ते) तव (महिमा) माहात्म्यम् (महान्) अपारः अस्ति। हे (देव) दिव्यगुण आचार्यप्रवर ! त्वम् (मह्ना) विद्याशिक्षणकलादिमहिम्ना (महान्) गौरवोपेतः (असि) विद्यसे ॥४॥६ अत्र श्लेषालङ्कारः ॥४॥
Essence
ब्रह्माण्डे परमेश्वरः, राष्ट्रे राजा, गुरुकुले च गुरुः त्रयोऽपि महान्तः परोपकारिणः कीर्तिमन्तश्च सन्ति। तेभ्यो यथायोग्यमुपकारः सर्वैर्ग्राह्यः ॥४॥
Subject
अथ सूर्यो देवता। सूर्यनाम्ना परमेश्वरनृपत्याचार्यादयः स्तूयन्ते।
Footnote
१. ऋ० ८।१०१।११, य० ३३।३९, अथ० २०।५८।३ सर्वत्र ‘पनिष्टम मह्ना’ इत्यत्र ‘पनस्यतेऽद्धा’ इति पाठः। अथ० १३।२।२९ ऋषिः ब्रह्मा, ‘महाँस्ते महतो महिमा त्वामादित्य महाँ असि’ इत्युत्तरार्द्धः। साम० १७८८। २. ‘राजसूयसूर्य’ अ० ३।१।११४ इत्यनेन क्यपि निपात्यते। सूसर्तिभ्यां क्यप्, सर्त्तेरुत्वं सुवतेर्वा रुडागमः। सरति सुवति वा सूर्यः इति काशिका। सुष्ठु ईरयिता नाशयिता शत्रूणां सूर्यः—इति वि०। सूर्यः सरणात् आदानात् रसानाम्—इति भ०। ३. आदित्य अविनाशिस्वरूप इति य० ३३।३९ भाष्ये द०। ४. ‘पनिष्टम स्तुत्यतमः, सोरकारादेशः’ इति भरतस्वामिव्याख्यानं तु चिन्त्यं, स्वरविरोधात्। ५. अत्र पुनरुक्तयोऽर्थभूयस्त्वद्योतकाः—इति भ०। ६. दयानन्दर्षिर्यजुर्भाष्ये मन्त्रमेनमीश्वरपक्षे व्याख्यातवान्।