Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 275

1875 Mantra
Devata- इन्द्रः Rishi- इरिम्बिठिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वा꣡स्तो꣢ष्पते ध्रु꣣वा꣡ स्थूणाꣳ स꣢꣯त्रꣳ सो꣣म्या꣡ना꣢म् । द्र꣣प्सः꣢ पु꣣रां꣢ भे꣢त्ता꣡ शश्व꣢꣯तीना꣣मि꣢न्द्रो꣣ मु꣡नी꣢ना꣣ꣳ स꣡खा꣢ ॥२७५॥

वा꣡स्तोः꣢꣯ । प꣣ते । ध्रुवा꣢ । स्थू꣡णा꣢꣯ । अँ꣡सत्रम् । सो꣣म्या꣡ना꣢म् । द्र꣣प्सः꣢ । पु꣣रा꣢म् । भे꣣त्ता꣢ । श꣡श्व꣢꣯तीनाम् । इ꣡न्द्रः꣢꣯ । मु꣡नी꣢꣯नाम् । स꣡खा꣢꣯ । स । खा꣣ ॥२७५॥

Mantra without Swara
वास्तोष्पते ध्रुवा स्थूणाꣳ सत्रꣳ सोम्यानाम् । द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनाꣳ सखा ॥

वास्तोः । पते । ध्रुवा । स्थूणा । अँसत्रम् । सोम्यानाम् । द्रप्सः । पुराम् । भेत्ता । शश्वतीनाम् । इन्द्रः । मुनीनाम् । सखा । स । खा ॥२७५॥

Samveda - Mantra Number : 275
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (वास्तोः पते) ब्रह्माण्डगृहस्य स्वामिन् इन्द्र परमेश्वर ! वास्तोष्पतिः, वास्तुः वसतेः निवासकर्मणः, तस्य पाता वा पालयिता वा। निरु० १०।१७। ‘षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु। अ० ८।३।५३’ इति विसर्गस्य सत्वे मूर्धन्यादेशः। त्वम् (सोम्यानाम्२) शान्तिमयानां शान्तिसम्पादिनां ब्रह्मानन्दरूपसोमाभिषवयोग्यानां वा त्वत्स्तोतॄणाम्। सोम्यं सोममयम्। निरु० १०।३७। सोम्याः सोमसम्पादिनः। निरु० ११।१८। यद्वा ‘सोममर्हति यः। अ० ४।४।१३७’ इति अर्हार्थे यः प्रत्ययः। (ध्रुवा स्थूणा३) स्थिरः आधारस्तम्भः असि, आधारस्तम्भ इवाश्रयभूतोऽसीत्यर्थः। किञ्च (अंसत्रम्४) धनुः कवचं च असि, धनुर्वद् विघ्नकारिषु प्रहर्त्ता कवच इव रक्षकश्चासीत्यर्थः। अंसत्रम् अंहसस्त्राणं धनुर्वा कवचं वा। निरु० ५।२६। (द्रप्सः५) रसमयः आदित्यज्योतिष्को वा। द्रप्सः रसः तद्वान् ‘अर्श-आदिभ्योऽच्, अ० ५।२।१२७’ इति मतुबर्थे अच् प्रत्ययः। यो वा अस्याः पृथिव्या रसः स द्रप्सः। मै० ४।१।१०। रसो वै सः। तै० उ० २।७। असौ वा आदित्यो द्रप्सः। श० ७।४।१।२०। (शश्वतीनाम्) चिरन्तनीनाम् (पुराम्) कामक्रोधादिरिपुकृतानां दुर्गपरम्पराणाम् (भेत्ता) भेदकः (इन्द्रः) परमेश्वरस्त्वम् (मुनीनाम्) मुनिसाधनारतानाम् (सखा) मित्रम् असि ॥ अत द्वितीयः—राष्ट्रपरः। हे (वास्तोः पते) राष्ट्रगृहस्य अधिपते राजन् ! त्वम् (सोम्यानाम्) राष्ट्रयज्ञरूपसोमयागसम्पादिनाम् प्रजाजनानाम् (ध्रुवा स्थूणा) स्थिरः आधारस्तम्भः, (अंसत्रम्) धनुः कवचं च भव, आधारस्तम्भो भूत्वा प्रजाजनेभ्य आश्रयं प्रदेहि, धनुः कवचं च भूत्वा शत्रूनाक्रमस्व प्रजाश्च शत्रुजन्याघातेभ्यः त्रायस्वेत्यर्थः। (द्रप्सः) प्रेमरसागारः, आदित्यवद् ज्योतिष्मान् (शश्वतीनाम्) चिरन्तनीनाम् (पुराम्) शत्रुनगरीणाम् (भेत्ता) विदारयिता (इन्द्रः) सम्राट् त्वम् (मुनीनाम्) मुनिवृत्त्या वनेषु वसतां वानप्रस्थानाम् (सखा) मित्रं, (मित्रवद्) हितचिन्तकः, भवेति शेषः ॥ अथ तृतीयः—शिल्पिपरः। हे (वास्तोः पते) वास्तुकलाविशेषज्ञ गृहनिर्माणकुशल शिल्पिन् ! अवधेहि, (सोम्यानाम्) सोमं यज्ञम् ऐश्वर्यं वा अर्हन्तीति सोम्याः याज्ञिका गृहस्थाः तेषाम् (स्थूणा) गृहाधारभित्तिस्तम्भश्रेणी (ध्रुवा) सुदृढा भवेत्, किञ्च (अंसत्रम्) अंसान् गृहस्कन्धभूतान् भित्त्यादिकान् त्रायते रक्षति इति अंसत्रम् छदिः अपि ध्रुवं सुदृढं भवेत्। यतः कदाचित् (द्रप्सः) वर्षोदकम्। द्रप्सः संभृतः प्सानीयो भवति—इति निरुक्तम् ५।१३। (शश्वतीनाम्) चिरात् स्थितानाम् अपि (पुराम्) नगरीणाम्, तद्गतभवनानामित्यर्थः। (भेत्ता) विदारयिता जायते। ननु मुनीनां गृहविषये कुतो न प्रार्थयसे इति चेत् उच्यते—(मुनीनाम्) वानप्रस्थवृत्त्या वने वसतां मुनीनाम् तु (इन्द्रः) परमेश्वरः (सखा) मित्रम् अस्ति, ते तु परमात्मैकशरणा बाह्यसुखनिरपेक्षा वने वृक्षमूले कुटीरस्था अपि स्वात्मनः सुखिनो मन्यन्ते इति भावः ॥३॥ अत्र श्लेषालङ्कारः। आद्ये व्याख्यानद्वये इन्द्रे अंसत्रस्थूणयोरारोपाद् रूपकमपि ॥३॥
Essence
स एव राजा श्रेष्ठोऽस्ति यः परमेश्वरगुणाननुसरन् प्रजाया आधारस्तम्भः, शत्रुहन्ता, स्वजनरक्षकः, स्नेहरसागारः, सूर्यज्योतिष्कः, मुनीनां मित्रवद्धितकर्ता च भवति। वास्तुकलाविदां च कर्तव्यमस्ति यत् ते राष्ट्रे तथा सुदृढानि गृहाणि कुशलैः शिल्पिभिर्निर्मापयेयुर्यथा तानि धारासारवृष्टिझञ्झावातादिभिरपि न कामपि क्षतिं प्राप्नुयुः ॥३॥
Subject
अथ परमात्मनो राज्ञः शिल्पिनश्च गुणकर्माणि वर्ण्यन्ते।
Footnote
१. ऋ० ८।१७।१४ देवता इन्द्रः वास्तोष्पतिर्वा। ‘द्रप्सः पुरां भेत्ता’ इत्यत्र ‘द्रप्सो भेत्ता पुरां’ इति पाठः। २. (सोम्यानाम्) सोमवच्छान्त्यादिगुणयुक्तानाम्। इति ऋ० ४।१७।१७ भाष्ये द०। सोमसम्पादिनां यजमानानाम् इत्यर्थः—इति वि०। सोमार्हाणां विप्राणाम्—इति भ०। सोमार्हाणां सोमसम्पादिनां वाऽस्माकम्—इति सा०। ३. लुप्तोपममेतद् द्रष्टव्यम्। ध्रुवा स्थूणा इव। यथा गृहस्य ध्रुवा स्थूणा आश्रयभूता तद्वत् त्वम् आश्रयभूत इत्यर्थः—इति वि०। ध्रुवा स्थूणा इत्युपमा। स्थूणावद् धारकः विश्वस्य—इति भ०। हे वास्तोष्पते गृहपते, स्थूणा गृहाधारभूतः स्तम्भः ध्रुवा स्थिरा भवतु—इति सा०। ४. अंसत्रम्। एतदपि लुप्तोपमम्। अंसत्रमिव। अंसत्रं धनुः कवचं वा। तद् यथा शत्रूणां जेतृ पालयितृ वा तद्वत् त्वं जेता पालयिता वेत्यर्थः—इति वि०। ५. द्रप्सः सोमरसः। अन्तर्णीतमत्वर्थं चेदं द्रष्टव्यम्। द्रप्सवान् सोमरसवानित्यर्थः—इति वि०। द्रप्सः गन्ता सर्वत्र—इति भ०। द्रवणशीलः सोमः तद्वान्। अर्शआदित्वादच् प्रत्ययः—इति सा०। ‘दृप हर्षणमोहनयोः’ इत्यस्मादौणादिकः सः प्रत्ययः, किच्च, ‘अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्, अ० ६।१।५९’ अमुनाऽमागमः, इति य० १।२६ भाष्ये द०।