Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 274

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि । म꣡घ꣢वञ्छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥२७४॥

य꣡तः꣢꣯ । इ꣣न्द्र । भ꣡या꣢꣯महे । त꣡तः꣢꣯ । नः꣣ । अ꣡भ꣢꣯यम् । अ । भ꣣यम् । कृधि । म꣡घ꣢꣯वन् । श꣣ग्धि꣢ । त꣡व꣢꣯ । तत् । नः꣣ । ऊत꣡ये꣢ । वि । द्वि꣡षः꣢꣯ । वि । मृ꣡धः꣢꣯ । ज꣣हि ॥२७४॥

Mantra without Swara
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥

यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । अ । भयम् । कृधि । मघवन् । शग्धि । तव । तत् । नः । ऊतये । वि । द्विषः । वि । मृधः । जहि ॥२७४॥

Samveda - Mantra Number : 274
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) शत्रुविदारक निर्भय परमेश्वर राजन् वा ! वयम् (यतः) यस्मात् (भयामहे) बिभीमः। ञिभी भये जुहोत्यादिर्वेदे भ्वादिरपि प्रयुज्यते। (ततः) तस्मात्, (नः) अस्माकम् (अभयम्) निर्भयत्वं (कृधि) कुरु। डुकृञ् करणे धातोः ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि, अ० ६।४।१०२’ इति हेर्धिः। हे (मघवन्) अभयरूपेणैश्वर्येण ऐश्वर्यवन् ! त्वम् (शग्धि) अस्मान् शक्तान् कुरु। (शक्लृ) शक्तौ, स्वादिः, णिजर्थगर्भः, श्नोर्लुक् छान्दसः। (तव) त्वदीयम् (तत्) अभयप्रदानम् (नः) अस्माकम् (ऊतये) रक्षायै, भवत्विति शेषः। त्वम् (द्विषः) द्वेषवृत्तीः द्वेषकर्तॄन् वा (वि) विजहि, (मृधः) हिंसावृत्तीः पारस्परिकसंग्रामान् वा। (मृधः) इति संग्रामनाम। निघं० २।१७। (विजहि) समापय ॥२॥ अत्र अर्थश्लेषालङ्कारः। ‘भया, भयं’ इति छेकानुप्रासः, तकारावृत्तौ वृत्त्यनुप्रासः ॥२॥
Essence
महाबलं परमात्मानं हृदि निधाय महापराक्रमं पुरुषं च राजपदेऽभिषिच्य तद्द्वारेणाभयं प्राप्य महत्त्वाकांक्षामुद्बोध्य महान्ति कार्याणि कृत्वा संसाराद् द्वेषवृत्तयो हिंसावृत्तयः सङ्ग्रामाश्च समाप्तव्याः, शान्तिः सद्भावना च स्थापनीया ॥२॥
Subject
अथेन्द्रनाम्ना परमात्मानं राजानं च निर्भयत्वं प्रार्थयते।
Footnote
१. ऋ० ८।६१।१३, ‘ऊतये’ इत्यत्र ‘ऊतिभिर्’ इति पाठः। अथ० १९।१५।१ ऋषिः अथर्वा, ‘तन्न ऊतये’ इत्यत्र ‘त्वं न ऊतये’ इति पाठः। साम० १३२१।