Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 273

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥२७३॥

यः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥२७३॥

Mantra without Swara
यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥

यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिगुः । अध्रि । गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठम् । यः । वृत्रहा । वृत्र । हा । गृणे ॥२७३॥

Samveda - Mantra Number : 273
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (यः) इन्द्रः परमेश्वरः (चर्षणीनाम्) मनुष्याणाम् (राजा) सम्राट्, (रथेभिः) रथैरिव इति लुप्तोपमम्, (याता) सज्जनान् गन्ता, (अध्रिगुः२) अधृतगमनः, शत्रुभिरप्रतिरुद्धगतिः, (विश्वासाम्) समस्तानाम् (पृतनानाम्) शत्रुसेनानाम्, कामजक्रोधजादिगणानाम् (तरुता३) उल्लङ्घयिता, पराजेता वर्तते। तॄ प्लवनसंतरणयोः तृचि ‘ग्रसितस्कभितस्तभित० अ० ७।२।३४’ इति उडागमो निपात्यते। (यः) यश्च इन्द्रः परमेश्वरः (वृत्रहा) पापहन्ता विद्यते, तम् (ज्येष्ठम्) गुणैः (प्रशस्यतमम्), अनादित्वाद् वयसाऽपि च वृद्धतमम्। अतिशयेन प्रशस्यो वृद्धो वेत्यर्थे इष्ठनि ‘ज्य च’ ‘वृद्धस्य च’ अ० ५।३।६१।६२ इति क्रमशः प्रशस्यवृद्धाभ्यां ज्यादेशः। अहम् गृणे स्तौमि अर्चामि वा। गॄ शब्दे, क्र्यादिः, गृणातिः अर्चतिकर्मा। निघं० ३।१४। स्तुतिकर्मा। निरु० ३।५ ॥ कामजक्रोधजगणाः मनुना एवं वर्णिताः—मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः। तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्। वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः। (मु० ७।४७, ४८)। एवं लोभादिगणा अपि विज्ञेयाः। उपासनाप्रतिरोधकान् तान् शत्रुगणान् परमेश्वरः पराजयते ॥ अथ द्वितीयः—राजपरः. (यः चर्षणीनाम्) मानुषीणां प्रजानाम् (राजा) सम्राट्, (रथेभिः) जलस्थलान्तरिक्षयानैः (याता) गन्ता, (अध्रिगुः) अप्रतिरुद्धगमनः, किञ्च (विश्वासाम्) सर्वासाम् (पृतनानाम्) रिपुसेनानाम् (तरुता) पराजेता विद्यते, (यः) यश्च (वृत्रहा) विघ्नकारिणां शत्रूणां हन्ताऽसि, तम् (ज्येष्ठम्) वीरत्वादिगुणैः प्रशस्यतमम् इन्द्रं राजानम् (गृणे) आह्वयामि, स्तौमि, प्रोत्साहयामि, सत्करोमि च ॥१॥ अत्र श्लेषोऽलङ्कारः। परमेश्वरपक्षे ‘याता रथेभिः’ इत्यत्र व्यङ्ग्योत्प्रेक्षा ॥१॥
Essence
यथा ब्रह्माण्डस्य राजराजेश्वरः संकटेभ्यस्त्राता केनाप्यप्रतिहतो विजयाय प्रयतमानानां दिव्यगुणचमूनां विजयप्रदाता कामक्रोधादिसेनानां ध्वंसको ज्येष्ठः श्रेष्ठश्च परमात्मा सर्वैरुपासनीयः, तथैव विद्युदादिभिश्चाल्यमानैर्विमानादिभिर्गन्ताऽऽगन्ता सकलशत्रुविजेता वीरो राष्ट्रनायकोऽपि संकटकाले प्रजाजनैराह्वातव्यो गुणकर्मप्रशंसनैः कीर्तनीयश्च ॥१॥
Subject
अथ परमात्मनो राज्ञश्च गुणान् वर्णयति।
Footnote
१. ऋ० ८।७०।१, अथ० २०।९२।१६, २०।१०५।४ सर्वत्र ‘ज्येष्ठं’ इत्यत्र ज्येष्ठो इति पाठः। साम० ९३३। २. द्रष्टव्यम्—निरु० ५।११ यत्र गवि अधिकृतत्वान्मन्त्रः, तच्छब्दवत्त्वात् प्रशासनम्, अधृतगमनत्वात् कर्मवत्वाच्च अग्निरिन्द्रश्च अध्रिगुशब्दवाच्यानि उक्तानि। ३. विश्वासां तरुता पृतनानां सर्वासां निस्तारिता, जेता सङ्ग्रामभूमीनाम्—इति वि०। तरुता हन्ता—इति भ०। तारकः इति सा०।