Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 271

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
क्वे꣢꣯यथ꣣ क्वे꣡द꣢सि पुरु꣣त्रा꣢ चि꣣द्धि꣢ ते꣣ म꣡नः꣢ । अ꣡ल꣢र्षि युध्म खजकृत्पुरन्दर꣣ प्र꣡ गा꣢य꣣त्रा꣡ अ꣢गासिषुः ॥२७१॥

क्व꣢꣯ । इ꣣यथ । क्व꣢꣯ इत् । अ꣣सि । पुरुत्रा꣢ । चि꣣त् । हि꣢ । ते꣣ । म꣡नः꣢꣯ । अ꣡ल꣢꣯र्षि । यु꣣ध्म । खजकृत् । खज । कृत् । पुरन्दर । पुरम् । दर । प्र꣢ । गा꣣यत्राः꣢ । अ꣣गासिषुः ॥२७१॥

Mantra without Swara
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥

क्व । इयथ । क्व इत् । असि । पुरुत्रा । चित् । हि । ते । मनः । अलर्षि । युध्म । खजकृत् । खज । कृत् । पुरन्दर । पुरम् । दर । प्र । गायत्राः । अगासिषुः ॥२७१॥

Samveda - Mantra Number : 271
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर राजन् वा ! त्वम् (क्व) कुत्र (इयथ) इयेथ गतोऽसि। इण् गतौ धातोर्लिटि मध्यमैकवचने ‘इययिथ, इयेथ’ इत्यस्य स्थाने छान्दसं रूपम्। (क्व इत्) कुत्र खलु (असि) विद्यसे ? (पुरुत्रा चित्) बहुषु एव, बहूनाम् उद्धारे इत्यर्थः. पुरु इति बहुनाम। निघं० ३।१। ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्। अ० ५।४।५६’ इति सप्तम्यर्थे त्रा प्रत्ययः। (ते) तव (मनः) चित्तम्, तिष्ठतीति शेषः। हे (युध्म) युद्धकुशल ! योद्धुं शीलं यस्य स युध्मः। युध सम्प्रहारे धातोः ‘इषियुधीन्धि०। उ० १।१४५’ इति मक् प्रत्ययः। हे (खजकृत्) शत्रुमन्थनकर्तः ! खज मन्थे। शत्रुमन्थनकारणादेव खज इति संग्रामनाम। निघं० २।१७। हे (पुरन्दर) शत्रुपुरां विदारयितः ! त्वम् (अलर्षि२) इयर्षि, कर्मव्यापृतोऽसि। ऋ गतौ धातोर्लटि, सिपि ‘दाधर्तिदर्धर्ति०। अ० ७।४।६५’ इत्यभ्यास्य हलादिशेषाभावः, रेफस्य लत्वम् इत्वाभावश्च निपात्यते। (गायत्राः३) प्रभुस्तुतेः राष्ट्रगानस्य वा गायका जनाः (प्र अगासिषुः) प्रकर्षेण तव यशोगानं कुर्वन्ति ॥ वस्तुतः परमात्माऽस्मान् परित्यज्य न कुत्रापि गच्छति, वयमेव तं परित्यजामः। भाषाशैलीयं यत् स्वात्मन उपालम्भस्थाने परमात्मोपालभ्यते। क्वचित् परमात्मनि निरनुग्रहे सति स्वात्मैवोपालम्भः। यथा—“किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत् स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम्। प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम्” ऋ० ७।८६।४ इति। सेयं द्विविधापि शैली वेदेषु सम्प्रयुक्ता। नृपतिपक्षे तु शत्रुपीडितैः प्रजाजनैर्नृपतिराहूयते समुद्बोध्यते चेति ज्ञेयम् ॥९॥ अत्रार्थश्लेषोऽलङ्कारः। ‘क्वे, क्वे’ इति छेकानुप्रासः। ‘युध्म, खजकृत्, पुरन्दर’ इत्यत्र च पुनरुक्तवदाभासः ॥९॥
Essence
यथा कामक्रोधादिभिः शत्रुभिः पीडिता जनाः सहायतार्थं परमात्मानमाह्वयन्ति, तथैव मानवशत्रुभिर्दैवीभिर्विपत्तिभिश्च समुद्वेजिता आर्ताः प्रजाजना राजानमाकारयन्ति ॥९॥
Subject
अथ परमात्मानं राजानं वाऽऽह्वयति।
Footnote
१. ऋ० ८।१।७। २. अलर्षि गच्छसि शत्रून् प्रति—इति वि०। हिंसि शत्रून्—इति भ०। आगच्छ—इति सा०। ३. गायत्राः मन्त्राः—इति वि०। गानकुशलाः स्तोतारः—इति भ०। गानकुशला अस्मदीयाः स्तोतारः—इति सा०।