Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 270

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣡वेदि꣢꣯न्द्राव꣣मं꣢꣫ वसु꣣ त्वं꣡ पु꣢ष्यसि मध्य꣣म꣢म् । स꣣त्रा꣢ विश्व꣢꣯स्य पर꣣म꣡स्य꣢ राजसि꣣ न꣡ कि꣢ष्ट्वा꣣ गो꣡षु꣢ वृण्वते ॥२७०॥

त꣡व꣢꣯ । इत् । इ꣣न्द्र । अवम꣢म् । व꣡सु꣢ । त्वम् । पु꣣ष्यसि । मध्यम꣢म् । स꣣त्रा꣢ । वि꣡श्व꣢꣯स्य । प꣣रम꣡स्य꣢ । रा꣣जसि । न꣢ । किः꣢ । त्वा । गो꣡षु꣢꣯ । वृ꣣ण्वते ॥२७०॥

Mantra without Swara
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥

तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् । सत्रा । विश्वस्य । परमस्य । राजसि । न । किः । त्वा । गोषु । वृण्वते ॥२७०॥

Samveda - Mantra Number : 270
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर ! (अवमम्) अवरं पृथिवीस्थं शरीरस्थं वा (वसु) धनम् (तव इत्) तवैव अस्ति। (त्वम्) त्वमेव (मध्यमम्) मध्यलोकेऽन्तरिक्षे मनोलोके वा विद्यमानम् धनम् (पुष्यसि) परि पुष्णासि। (सत्रा२) सत्यमेव सर्वदा वा, त्वम् (विश्वस्य) सर्वस्य (परमस्य) परमे द्युलोके आत्मलोके वा विद्यमानस्य धनस्यापि (राजसि) राजा वर्तसे।३(त्वा) त्वाम् (गोषु) पृथिव्यादिलोकेषु, यद्वा गवाद्यैश्वर्याणां दानेषु, (न किः) नैव केचित् (वृण्वते) वारयितुं शक्नुवन्ति। वृञ् वरणे स्वादिः, अत्र वारणार्थः ॥८॥४
Essence
अवमे पृथिवीलोके यद् रजत-हिरण्य-मणि-मुक्ता-हीरक-कन्द-फल- रस-धेनु-तुरग-सन्तानादिकं वसु विद्यते, मध्यमेऽन्तरिक्षलोके यद् विद्युन्मेघग्रहचन्द्रादिकम् ऐश्वर्यं वर्तते, परमे द्युलोके च यत् सूर्यरश्मितारामण्डलादिकं वित्तं वर्वर्ति, तस्य सर्वस्य परमेश्वर एव राजाऽस्ति। तथैवास्माकमध्यात्मजगति स्थूलशरीरस्य त्वगस्थिमज्जावीर्यज्ञानेन्द्रियकर्मेन्द्रियादिरूपं यद् वसु विद्यते, मध्यमस्य मनोलोकस्य यन्मनोबुद्धिचित्ताहंकाररूपं तत्तत्संकल्पबलादिरूपं च यद् वसु वर्तते, परमलोकस्य आत्मनश्च यद् ज्ञानादिकमैश्वर्यं विद्यते तस्यापि परमेश्वर एव शासकः पोषकश्चास्ति। तस्य परमेश्वरस्य पृथिव्यादिलोकेषु कुत्रापि गतिर्न विहन्यते। स स्वकीयादैश्वर्यात् यत्किञ्चिदपि गवादिकं यस्मै कस्मैचिद् दातुमिच्छति तस्मै तस्य दानमपि न कश्चिद् वारयितुं शक्नोति ॥८॥
Subject
अथ जगति विद्यमानं सर्वं धनं परमात्मन एवेत्याह।
Footnote
१. ऋ० ७।३२।१६। २. सत्रा सर्वदा—इति वि०। सत्यमेव—इति भ०, सा०। ३. अवमं त्रपुसीसादिकं वसु। मध्यमं रजतहिरण्यादिकं वसु। परमस्य श्रेष्ठस्य रत्नादिकवसुनः।.... यद्वा अवमं वसु पार्थिवम्, मध्यममान्तरिक्ष्यम्, परमं दिव्यम्—इति भ०, तदेव सायणस्याभिमतम्। ४. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये राजविषये व्याख्यातवान्।