Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 27

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्नि꣢र्मू꣣र्धा꣢ दि꣣वः꣢ क꣣कु꣡त्पतिः꣢꣯ पृथि꣣व्या꣢ अ꣣य꣢म् । अ꣣पा꣡ꣳ रेता꣢꣯ꣳसि जिन्वति ॥२७॥

अ꣣ग्निः꣢ । मू꣣र्धा꣢ । दि꣣वः꣢ । क꣣कु꣢त् । प꣡तिः꣢꣯ । पृ꣣थिव्याः꣢ । अ꣣य꣢म् । अ꣣पां꣢ । रे꣡ताँ꣢꣯सि । जि꣣न्वति ॥२७॥

Mantra without Swara
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति ॥

अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् । अपां । रेताँसि । जिन्वति ॥२७॥

Samveda - Mantra Number : 27
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (अग्निः) सर्वाग्रणीः परमेश्वरः (मूर्द्धा२) शरीरे मूर्द्धवत् जगतः शिरोमणिभूतः, (दिवः) प्रकाशमयस्य द्युलोकस्य (ककुत्३) सर्वोन्नतः स्वामी, किञ्च (पृथिव्याः) भूमेः (पतिः) पालकः वर्त्तते। (अयम्) एष परमेश्वरः (अपाम्४) अन्तरिक्षस्य। आप इत्यन्तरिक्षनाम। निघं० १।३। (रेतांसि) जलानि। रेत इत्युदकनाम। निघं० १।१२। (जिन्वति) प्रेरयति, वृष्ट्या भूलोकं प्रापयतीत्यर्थः। जिन्वतिः गतिकर्मा। निघं० २।१४ ॥ अथ द्वितीयः—सूर्याग्निपरः। (अग्निः) प्रकाशकः सूर्याग्निः (मूर्द्धा) त्रिलोक्याः शिर इव, (दिवः) द्युलोकरूपस्य वृषभस्य (ककुत्) ककुदिव, (पृथिव्याः) भूमेश्च (पतिः) पालकः स्वामी वर्त्तते। अयम् (अपाम्) अन्तरिक्षस्य (रेतांसि) उदकानि (जिन्वति) भूमौ प्रेरयति ॥७॥ अत्र श्लेषालङ्कारः। परमेश्वरः सूर्य इवेत्युपमाध्वनिः। मूर्द्धेव ककुदिव इति लुप्तोपमम्। यद्वा अग्नौ मूर्ध्नः ककुदश्चारोपाद् रूपकालङ्कारः। अग्नौ ककुत्त्वारोपः शब्दः, दिवि वृषभत्वारोप आर्थः, तेनैकदेशविवर्त्ति रूपकम् ॥७॥५
Essence
यथा सूर्यः सौरजगतो मूर्धेव, द्युलोकस्य ककुदिव, भूमेश्च पालकोऽस्ति तथैवाऽस्माभिरुपास्यमानोऽयं परमेश्वरः सकलब्रह्माण्डस्य शिरोमणिः, प्रोज्ज्वलन्नानानक्षत्रजालजटितस्य द्युलोकस्याधिपतिः, विविधपर्वतनदीनदसागरसरोवरलताविटपिपत्र- पुष्पादिसुषमासमन्वितस्य भूमण्डलस्य पालकश्चाऽस्ति। स एव सूर्यवदन्तरिक्षस्थानि मेघजलानि भूमौ वर्षयति। अतः स सर्वेषां धन्यवादार्हः ॥७॥
Subject
अथ सूर्यदृष्टान्तेन परमात्मनो महिमानं वर्णयन्नाह।
Footnote
१. ऋ० ८।४४।१६, य० ३।१२, १५।२०, साम० १५३२। २. अग्निः मूर्धा। लुप्तोपममिह द्रष्टव्यम् मूर्धानमिव। यादृशं मनुष्याणां शिरः सर्वाङ्गानां प्रधानं तादृशः प्रधानः स्वामीत्यर्थः—इति वि०। मूर्द्धा धारकः—इति भ०। ३. ककुत् एतदपि लुप्तोपमम्। ककुदमिव। यथा बलीवर्दस्य ककुदं प्रधानं तादृशः प्रधानः—इति वि०। दिवः ककुत् उच्छ्रितः—इति भ०। ४. अपां रेतांसि। आप इत्यन्तरिक्षनाम, रेत इत्युदकनाम। अन्तरिक्षस्य सारभूतानि उदकानि, अथवा अपां वीर्याणि वृष्ट्यादीनि जिन्वति तर्पयति प्रीणयति—इति भ०। अपां रेतांसि स्थावरजङ्गमात्मकानि भूतानि जिन्वति प्रीणयति—इति सा०। ५. दयानन्दर्षिणा मन्त्रोऽयं य० ३।१२ इत्यत्र श्लेषेण परमेश्वरपक्षे भौतिकाग्निपक्षे च व्याख्यातः, य० १५।२० इत्यत्र च भौतिकाग्निपक्षे।