Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 269

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ नो꣣ वि꣡श्वा꣢सु꣣ ह꣢व्य꣣मि꣡न्द्र꣢ꣳ स꣣म꣡त्सु꣢ भूषत । उ꣢प꣣ ब्र꣡ह्मा꣢णि꣣ स꣡व꣢नानि वृत्रहन्परम꣣ज्या꣡ ऋ꣢चीषम ॥२६९॥

आ꣢ । नः꣣ । वि꣡श्वा꣢꣯सु । ह꣡व्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । भू꣣षत । उ꣡प꣢꣯ । ब्र꣡ह्मा꣢꣯णि । स꣡व꣢꣯नानि । वृ꣣त्रहन् । वृत्र । हन् । परमज्याः꣢ । प꣣रम । ज्याः꣢ । ऋ꣣चीषम ॥२६९॥

Mantra without Swara
आ नो विश्वासु हव्यमिन्द्रꣳ समत्सु भूषत । उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥

आ । नः । विश्वासु । हव्यम् । इन्द्रम् । समत्सु । स । मत्सु । भूषत । उप । ब्रह्माणि । सवनानि । वृत्रहन् । वृत्र । हन् । परमज्याः । परम । ज्याः । ऋचीषम ॥२६९॥

Samveda - Mantra Number : 269
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! यूयम् (विश्वासु समत्सु) सर्वेषु देवासुरसंग्रामेषु। समत् इति संग्रामनाम। निघं० २।१७। (नः) अस्माकम् युष्माकं च (हव्यम्) आह्वातुं योग्यम् (इन्द्रम्) शत्रुविदारकं परमात्मानम् (आ भूषत) नेतृपदे अलंकुरुत। भूष अलंकारे, भ्वादिः। हे (वृत्रहन्) पापादीनाम् असुराणां हन्तः ! हे (ऋचीषम२) वेदज्ञानां सत्कर्तः ! ऋक्षु ईषा गतिर्येषां ते ऋगीषाः, चकारस्य प्रकृतिभावे ऋचीषाः, तान् मानयतीति ऋचीषमः। मन पूजायाम् धातोर्ड प्रत्ययः, डित्वाट्टिलोपः। यद्वा, हे (स्तोतॄणां) मानप्रद ! ऋचन्ति स्तुवन्तीति ऋचीषाः। ऋच स्तुतौ धातोर्बाहुलकादौणादिक ईषन् प्रत्ययः। तान् मानयतीति ऋचीषमः। यद्वा, ऋचीषम स्तुत्यनुरूप परमात्मन् ! ऋचीषमः ऋचासमः। निरु० ६।२३। (परमज्याः३) परमान् प्रबलान् कामक्रोधादीन् रिपून् जिनाति विनाशयतीति तादृशः। परमोपपदात् ज्या वयोहानौ इति धातोः क्विपि रूपम्। त्वम् (ब्रह्माणि) अस्माकं स्तोत्राणि (सवनानि४) जीवनयज्ञस्य बाल्य-यौवन-वार्द्धक्य-रूपाणि प्रातर्माध्यन्दिनसायंसवनानि (उप) उपगच्छ प्राप्नुहि। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥७॥
Essence
मनुष्यस्य जीवने ये बाह्या आन्तरिकाश्च देवासुरसंग्रामा उपतिष्ठन्ति तेषु यदि स परमेश्वरं स्मृत्वा ततो बलं याचेत तर्हि सर्वानपि प्रतिपक्षिणो जेतुमर्हति ॥७॥
Subject
अथ सर्वत्र समरेषु परमेश्वरो हव्योऽस्तीत्याह।
Footnote
१. ऋ० ८।९०।१, अथ० २०।१०४।३। उभयत्र ‘हव्य इन्द्रः समत्सु भूषतु’ इति ‘वृत्रहा परमज्या ऋचीषमः’ इति च पाठः। अथर्ववेदे ऋषिः नृमेधः। साम० १४९२। २. ऋचीषमः। ऋचीत्यनेन शब्देन स्तुतिरुच्यते। ऋच स्तुतावित्येतस्य स्तुत्यर्थत्वात्। यावन्तः स्तुतौ गुणाः तैः सर्वैर्युक्त इत्यर्थः—इति वि०। ऋचा स्तुत्या सदृश—इति भ०। स्तुतिभिरभिमुखीकरणीयेन्द्र—इति सा०। ‘ऋच्यन्ते स्तूयन्ते त ऋचीषाः तान् अतिमान्यान् करोति, अत्र ऋच धातोर्बाहुलकादौणादिकः कर्मणि ईषन् प्रत्ययः’ इति ऋ–० १।६१।१ भाष्ये, ऋचा तुल्य प्रशंसनीय इति च ऋ० ६।४६।४ भाष्ये द०। ३. परमा उत्कृष्टा ज्या यस्य स परमज्याः। परमो वा शत्रूणां जेता परमज्याः—इति वि०। परमम् अत्यर्थं क्षपयिता शत्रूणाम्—इति भ०। युद्धेषु शत्रुहननार्थं परमा अविनश्वरा ज्या मौर्वी यस्य तथोक्तः। यद्वा परमान् बलेन प्रकृष्टान् शत्रून् जिनाति हिनस्तीति परमज्याः—इति सा०। ४. द्रष्टव्यम्—छा० उ० ३।१६। पुरुषो वाव यज्ञः, तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनम्। ..... अथ यानि चतुश्चत्वारिंशद् वर्षाणि तन्माध्यन्दिनं सवनम्।... अथ यान्यष्टाचत्वारिंशद् वर्षाणि तत् तृतीयसवनम् इत्यादि।