Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 268

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
न꣢ सी꣣म꣡दे꣢व आप꣣ त꣡दिषं꣢꣯ दीर्घायो꣣ म꣡र्त्यः꣢ । ए꣡त꣢ग्वा꣣ चि꣣द्य꣡ एत꣢꣯शो यु꣣यो꣡ज꣢त꣣ इ꣢न्द्रो꣣ ह꣡री꣢ यु꣣यो꣡ज꣢ते ॥२६८॥

न꣢ । सीम् । अ꣡दे꣢꣯वः । अ । दे꣣वः । आप । तत् । इ꣡ष꣢꣯म् । दी꣣र्घायो । दीर्घ । आयो । म꣡र्त्यः꣢꣯ । ए꣡त꣢꣯ग्वा । ए꣡त꣢꣯ । ग्वा꣣ । चित् । यः꣢ । ए꣡त꣢꣯शः । यु꣣यो꣡ज꣢ते । इ꣡न्द्रः꣢꣯ । हरीइ꣡ति꣢ । यु꣣यो꣡ज꣢ते ॥२६८॥

Mantra without Swara
न सीमदेव आप तदिषं दीर्घायो मर्त्यः । एतग्वा चिद्य एतशो युयोजत इन्द्रो हरी युयोजते ॥

न । सीम् । अदेवः । अ । देवः । आप । तत् । इषम् । दीर्घायो । दीर्घ । आयो । मर्त्यः । एतग्वा । एत । ग्वा । चित् । यः । एतशः । युयोजते । इन्द्रः । हरीइति । युयोजते ॥२६८॥

Samveda - Mantra Number : 268
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (दीर्घायो२) दीर्घायुष्क यजमान ! (अदेवः) दीव्यति विजिगीषते द्योतते वा सः देवः, न देवः अदेवः निस्तेजस्को महत्त्वाकाङ्क्षाहीनश्च। नञ्स्वरेणाद्युदात्तत्वम्। (मर्त्यः) मनुष्यः (तत्) तां प्रसिद्धाम्। अत्र ‘सुपां सुलुग्’ अ० ७।१।३९ इति विभक्तेर्लुक्। (इषम्) इष्यते इति इट् ताम् अभीप्सितं विजयसाम्राज्यमोक्षादिकम् (न सीम् आप३) न खलु प्राप्नोति। सीम् इति परिग्रहार्थीयो वा पदपूरणो वा, निरु० १।६। (यः) यजमानः (एतशः) गतिशीलः कर्मण्यो भूत्वा। एतीति एतशः। इण् गतौ धातोः ‘इणस्तशन्तसुनौ’ उ० ३।१४७ इति तशन् प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। (एतग्वा) एतग्वौ शीघ्रगामिनौ ज्ञानेन्द्रियकर्मेन्द्रियरूपौ मनःप्राणरूपौ वा अश्वौ। एतग्वः इत्यश्वनाम। निघं० १।—१४। ‘सुपां सुलुक्’ इति द्वितीयाद्विवचनस्य आकारादेशः। (चित्) खलु (युयोजते) कार्येषु युनक्ति। युजर् योगे, रुधादिः, लेटि व्यत्ययेन श्लुः, ‘लेटोऽडाटौ’ अ० ३।४।९४ इत्यडागमः। तं प्रति (इन्द्रः) परमेश्वरोऽपि (हरी) स्वकीयौ ज्ञानकर्मरूपौ अश्वौ (युयोजते) युनक्ति, ज्ञानेन कर्मणा (च) तत्साहाय्यं विधत्ते इति भावः ॥६॥
Essence
मनुष्यैर्विद्याविस्तार-रिपुविजय-चक्रवर्तिसाम्राज्य-मोक्षादिकं लक्ष्यं विधाय मनोबुद्धिप्राणज्ञानेन्द्रियकर्मेन्द्रियादीनि साधनानि चोपयुज्य कर्मण्यतामङ्गीकृत्य पुरुषार्थो विधेयो, यतोऽलसानां परमेश्वरोऽपि सहायको न भवति ॥६॥
Subject
अथ पुरुषार्थी मानव एव जीवने सफल इत्याह।
Footnote
१. ऋ० ८।७०।७, ‘आपदिषं’, ‘एतशा युयोजते हरी इन्द्रो युयोजते’ इति पाठः। २. हे दीर्घायो दीर्घजीवित मदीय अन्तरात्मन्—इति वि०। हे दीर्घायो पुरुहन्मन्—इति भ०। हे दीर्घायो इन्द्र नित्येन्द्र—इति सा०। ३. माधवभरतस्वामिसायणास्तु ‘आपतत्’ इत्येकं पदं मत्वा व्याचक्षते। ‘न आपतत् न प्राप्नोतीत्यर्थः’—इति वि०। नाप्नुयात्—इति भ०। न प्राप्नोति—इति सायणः। तच्चिन्त्यं पदकारविरोधात् स्वरविरोधाच्च।