Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 267

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत । व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥२६७॥

श्रा꣡य꣢꣯न्तः । इ꣣व । सू꣡र्य꣢꣯म् । वि꣡श्वा꣢꣯ । इत् । इ꣡न्द्र꣢꣯स्य । भ꣣क्षत । व꣡सू꣢꣯नि । जा꣣तः꣢ । ज꣡नि꣢꣯मानि । ओ꣡ज꣢꣯सा । प्र꣡ति꣢꣯ । भा꣣ग꣢म् । न । दी꣣धिमः ॥२६७॥

Mantra without Swara
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥

श्रायन्तः । इव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत । वसूनि । जातः । जनिमानि । ओजसा । प्रति । भागम् । न । दीधिमः ॥२६७॥

Samveda - Mantra Number : 267
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! (श्रायन्तः) फलपाकं कुर्वन्तो वृक्षादयः, परिपाकं कुर्वन्तो वह्न्यादयो वा। श्रै पाके धातोः शतरि रूपम्। (सूर्यम् इव) यथा सूर्यं सेवन्ते तथा (श्रायन्तः) स्वात्मनः परिपाकं कुर्वन्तो यूयम् (इन्द्रस्य) जगत्सम्राजः परमेश्वरस्य (विश्वा इत्) विश्वानि एव, सर्वाण्येव परोपकारित्व-दयालुत्व-न्यायकारित्वादीनि स्वरूपाणि (भक्षत) भजत, सेवध्वम्। भज सेवायाम् धातोर्लोटि सिब्विकरणश्छान्दसः। यद्वा भक्ष अदने भ्वादिः, तस्य रूपम्। अत्त, सेवध्वम्। (जातः) प्रसिद्धः स इन्द्रः परमेश्वरः (ओजसा) स्वकीयेन बलेन, समस्तानि (वसूनि) धनानि (जनिमानि) विविधानि जन्मानि च। जनी प्रादुर्भावे धातोः ‘जनिमृङ्भ्यामिमनिन्’ उ० ४।१५० इति इमनिन् प्रत्ययः। ददातीति शेषः। वयम् तम् इन्द्रम् (भागं न) यथा पुत्रः स्वदायभागं प्रतिदधाति प्रतिगृह्य स्वसमीपे धारयति तथा (प्रति दीधिमः) स्वहृदये धारयामः। दीधीङ् दीप्तिदेवनयोः, (अत्र) धारणार्थः, परस्मैपदं छान्दसम्। यद्वा, दधातेरिदं छान्दसं रूपम्, प्रतिदीधिमः प्रतिदध्मः ॥५॥ एतन्मन्त्रस्य ऋग्वेदीयः पाठो यास्काचार्येणैवं व्याख्यातः—समाश्रिताः सूर्यमुपतिष्ठन्ते। अपि वोपमार्थे स्यात्, सूर्यमिवेन्द्रमुपतिष्ठन्ते। सर्वाणीन्द्रस्य धनानि विभक्षमाणाः, स यथा धनानि विभजति जाते च जनिष्यमाणे च। वयं तं भागमनुध्यायामौजसा बलेन। ओज ओजतेर्वा उब्जतेर्वा। निरु० ६।८। अत्र द्वयोरुपमयोः संसृष्टिरलङ्कारः ॥५॥
Essence
सूर्यं विना फलादीनामिव पमेश्वरं विना जीवात्मनां परिपाको न जायते। यथा पुत्रा निजं निजं दायभागं स्वपार्श्वे धरन्ति, तथैव सर्वैः परमात्मा हृदि धारणीयः ॥५॥
Subject
अथ परमात्मनो गुणकर्मस्वभावा अस्माभिर्धारणीया इत्याह।
Footnote
१. ऋ० ८।९९।३, य० ३३।४१, अथ० २०।५८।१, सर्वत्र ‘वसूनि जाते जनिमान ओजसा प्रति भागं न दीधिम’ इति पाठः। साम० १३१९।