Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 266

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्र꣢ त्रि꣣धा꣡तु꣢ शर꣣णं꣢ त्रि꣣व꣡रू꣢थꣳ स्व꣣स्त꣡ये꣢ । छ꣣र्दि꣡र्य꣢च्छ म꣣घ꣡व꣢द्भ्यश्च꣣ म꣡ह्यं꣢ च या꣣व꣡या꣢ दि꣣द्यु꣡मे꣢भ्यः ॥२६६॥

इ꣡न्द्र꣢꣯ । त्रि꣣धा꣡तु꣢ । त्रि꣣ । धा꣡तु꣢꣯ । श꣣रण꣢म् । त्रि꣣व꣡रू꣢थम् । त्रि꣣ । व꣡रू꣢꣯थम् । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । छ꣣र्दिः꣢ । य꣣च्छ । मघ꣡व꣢द्भ्यः । च꣣ । म꣡ह्य꣢꣯म् । च꣣ । याव꣡य꣢ । दि꣣द्यु꣢म् । ए꣣भ्यः ॥२६६॥

Mantra without Swara
इन्द्र त्रिधातु शरणं त्रिवरूथꣳ स्वस्तये । छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥

इन्द्र । त्रिधातु । त्रि । धातु । शरणम् । त्रिवरूथम् । त्रि । वरूथम् । स्वस्तये । सु । अस्तये । छर्दिः । यच्छ । मघवद्भ्यः । च । मह्यम् । च । यावय । दिद्युम् । एभ्यः ॥२६६॥

Samveda - Mantra Number : 266
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—राष्ट्रपरः। हे (इन्द्र) दुःखविदारक सुखप्रद परमैश्वर्यवन् राजन् ! त्वम् (मघवद्भ्यः च) राष्ट्रस्य बहुधनेभ्यो जनेभ्यश्च। अत्र भूम्न्यर्थे मतुप्। (मह्यं च) मह्यं सामान्यप्रजाजनाय च। (स्वस्तये) सुखाय, उत्तमास्तित्वाय, अविनाशाय वा। स्वस्तीत्यविनाशिनाम। अस्तिरभिपूजितः, स्वस्तीति। निरु० ३।२२। (त्रिधातु२) त्रिभूमिकम् न्यूनान्न्यूनं त्रिकोष्ठं वा, (शरणम्) आश्रयितुं योग्यम्, (त्रिवरूथम्३) त्रयाणां शीतातपवर्षाणां निवारकम्। वृञ् आवरणे धातोः ‘जॄवृभ्यामूथन् उ० २।६’ इति ऊथन् प्रत्ययः. (छर्दिः) गृहम्। छर्दिरिति गृहनाम। निघं० ३।४। (यच्छ) देहि। (एभ्यः) जनेभ्यः, (दिद्युम्) विद्युत्प्रकाशं च (यावय) यवय गृहेषु संयोजय। यु मिश्रणामिश्रणयोर्णिजन्तस्य रूपम्। संहितायाम् द्वयोरप्यचोः ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। यद्वा, (एभ्यः) गृहेभ्यः अपादानभूतेभ्यः (दिद्युम्४) आकाशीयां विद्युतम्। द्युत दीप्तौ धातोः बाहुलकात् डु प्रत्यये, छान्दसे द्वित्वे, टिलोपे दिद्युः। अस्यैव धातोः क्विबन्तं रूपं दिद्युत् इति वज्रनाम निघं० २।१०। (यावय) पृथक् कुरु, भूमौ अतिवाहय। विद्युद्वाहकताम्रतारं संयोज्य तथा प्रबन्धं कुरु येनाकाशात् पतितापि विद्युद् गृहक्षतिकरी न भवेदित्यर्थः ॥ अथ द्वितीयः—मानवशरीरपरः। हे (इन्द्र) परमेश्वर ! त्वम्, अस्य राष्ट्रस्य (मघवद्भ्यः) विद्यास्वास्थ्यादिधनसंपन्नेभ्यो जनेभ्यः, (मह्यं च) उपासकाय (स्वस्तये) कल्याणार्थं पुनर्जन्मनि (त्रिधातु) त्रयो धातवः सत्त्वरजस्तमोरूपाः, वातपित्तकफरूपाः, प्राणमनोबुद्धिरूपाः, बाल्ययौवनस्थविरत्वरूपाः, अस्थिमज्जावीर्यरूपा वा यत्र तादृशम्, (शरणम्) आत्मनोऽधिष्ठानभूतम्, (त्रिवरूथम्) त्रीणि ज्ञानकर्मोपासनारूपाणि वरूथानि वरणीयानि व्रतानि यत्र तादृशम् (छर्दिः) मानवशरीररूपं गृहम् (यच्छ) प्रदेहि। (एभ्यः) शरीरगृहेभ्यः (दिद्युम्) संतापकं रोगादिकं दुष्टकर्मादिकं च (यावय) पृथक् कुरु ॥ अथ तृतीयः—अध्यात्मपरः। हे (इन्द्र) दुःखविदारक सुखप्रद परमैश्वर्यशालिन् परमात्मन् ! त्वम् (मघवद्भ्यः) योगसिद्धिरूपधनवद्भ्यो योगिभ्यः (मह्यं च) योगसाधकाय (स्वस्तये) मोक्षरूपोत्तमास्तित्वलाभाय (त्रिधातु) त्रयो धातवः सत्त्वचित्त्वानन्दलक्षणा यत्र तत् (त्रिवरूथम्) त्रयाणाम् आध्यात्मिकाधिदैविकाधिभौतिकरूपदुःखानां वरूथं निवारकम्, (छर्दिः) पापानामुद्वमनकारकम्। छर्द वमने धातोः ‘अर्चि-शुचि-हु-सृपि-छदि-छर्दिभ्य इसिः’ उ० २।११० इति इसिप्रत्ययः. (शरणम्) स्वकीयं शरणम् (यच्छ) प्रदेहि। (एभ्यः) योगारूढेभ्यो जनेभ्यः (दिद्युम्) उत्तेजकं कामक्रोधादिकम् (यावय) पृथक् कुरु ॥४॥५ अत्र श्लेषालङ्कारः। पूर्वार्द्धे तकारानुप्रासः, उत्तरार्द्धे च यकारानुप्रासः ॥४॥
Essence
राजसाहाय्येन राष्ट्रवासिनां निवासगृहाणि यथायोग्यं त्रिभूमिकानि, न्यूनान्न्यूनं त्रिकोष्ठानि, शीतातपवृष्टिभ्यस्त्राणकराणि, सर्वर्तुसुखकराणि, विद्युत्प्रकाशयुक्तानि, विद्युत्पातसहानि च भवेयुः। परमात्मनश्छत्रच्छायारूपं गृहमप्यस्माकं सुलभं भवेत्। किं च वयं सर्वदा तादृशानि सत्कर्माणि कुर्याम यैरस्माभिर्भूयो भूयो मानवशरीररूपं गृहमेव प्राप्येत। न कदाचित् तादृशेषु कर्मसु लिप्ता भवेम यैः सिंहव्याघ्रकीटपतङ्गस्थावरादियोनिषु जन्म गृह्णीयाम ॥४॥
Subject
अथ कीदृशं गृहं परमात्मशरणं वाऽस्माकं सुलभं भवेदित्याह।
Footnote
१. ऋ० ६।४६।९, अथ० २०।८३।१ ऋषिः शंयुः। उभयत्र ‘स्वस्तये’ इत्यत्र ‘स्वस्तिमत्’ इति पाठः। २. त्रिधातु। धातुशब्देन रसा उच्यन्ते। त्रयो रसाः देवपितृमनुष्योपभोग्याः, अपि वा धातवः कामक्रोधलोभादयः तैर्युक्तम्। अथवा सुवर्णरजतमाणिक्यैः त्रिभिर्धातुभिर्युक्तम् यत् त्रिधातुशरणं गृहम्.... इति वि०। त्रिभूमिकम्—इति भ०, सा०। ३. त्रिवरूथम्। वरणीयं ग्रीष्मवर्षाहेमन्तेषु चन्दनागुरुकुङ्कुमादिविलेपनं त्रिप्रकारकमपि अस्मिन् तत् त्रिवरूथम्। अथवा त्रिभिरग्निभिर्युक्तम्। वेदैस्त्रिभिर्देवैर्वा ब्रह्मविष्ण्वीशैःसवनैर्वा त्रिभिः उपतेमित्यर्थः—इति वि०। त्रयाणां वारकं वर्षवातातपानाम्—इति भ०। त्रयाणां शीतातपवर्षाणां वारकम्—इति सा०। ४. यावय पृथक्कुरु यावत्प्रमाणकं दिद्युम् देयमस्मभ्यम्। अथवा दिद्युदिति वज्रनाम तस्यायं छान्दसः तकारलोपः, दिद्युतम्—इति वि०। आयुधं शत्रुभिः प्रहितम्—इति भ०। शत्रुप्रेरितं द्योतमानम् आयुधम्—इति सा०। ५. ऋग्भाष्ये दयानन्दर्षिरिमं मन्त्रम् मनुष्याः कीदृशं गृहं निर्मिमीरन्निति विषये व्याख्यातवान्। तन्मते (त्रिधातु) त्रयः सुवर्णरजतताम्रा धातवो यस्मिँस्तत्, (त्रिवरूथम्) शीतोष्णवर्षासूत्तमम्, (शरणम्) आश्रयितुं योग्यम्, (स्वस्तिमत्) बहुसुखयुक्तम् (छर्दिः) गृहम् निर्मातव्यम्, तत्र (दिद्युः) सुप्रकाशश्च योजनीयः। एष च तत्कृतो भावार्थः—“मनुष्यैर्यत् सर्वर्तुषु सुखकरं धनधान्ययुक्तं वृक्षपुष्पफलशुद्धवायूदकधार्मिकधनाढ्यसमन्वितं गृहं तन्निर्माय तत्र निवसनीयं, यतः सर्वदाऽऽरोग्येण सुखं वर्धेत” इति।