Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 265

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣡ वो꣢ वी꣣र꣡मन्ध꣢꣯सो꣣ म꣡दे꣢षु गाय गि꣣रा꣢ म꣣हा꣡ विचे꣢꣯तसम् । इ꣢न्द्रं꣣ ना꣢म꣣ श्रु꣡त्य꣢ꣳ शा꣣कि꣢नं꣣ व꣢चो꣣ य꣡था꣢ ॥२६५॥

अ꣣भि꣢ । वः꣣ । वीर꣢म् । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯षु । गा꣣य । गिरा꣢ । म꣣हा꣢ । विचे꣢꣯तसम् । वि । चे꣣तसम् । इ꣡न्द्र꣢꣯म् । ना꣡म꣢꣯ । श्रु꣡त्य꣢꣯म् । शा꣣कि꣡न꣢म् । व꣡चः꣢꣯ । य꣡था꣢꣯ ॥२६५॥

Mantra without Swara
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । इन्द्रं नाम श्रुत्यꣳ शाकिनं वचो यथा ॥

अभि । वः । वीरम् । अन्धसः । मदेषु । गाय । गिरा । महा । विचेतसम् । वि । चेतसम् । इन्द्रम् । नाम । श्रुत्यम् । शाकिनम् । वचः । यथा ॥२६५॥

Samveda - Mantra Number : 265
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे उद्गातारः ! (वः) यूयम् (अन्धसः) श्रद्धारसस्य (मदेषु) तृप्तियोगेषु सत्सु (महा) महत्या। मह पूजायाम् धातोः क्विपि तृतीयैकवचने रूपम्, यद्वा महद्वाचिनो महशब्दात् स्त्रियामाकारान्तात् तृतीयैकवचने ‘सुपां सुलुक्० अ० ७।१।३९’ इति पूर्वसवर्णदीर्घ एकादेशः। (गिरा) वेदवाचा। (वीरम्) विक्रमशालिनम् यद्वा विशेषेण ईरयति कम्पयति शत्रूनिति वीरस्तम्। वीर विक्रान्तौ, यद्वा, विपूर्वः ईर गतौ कम्पने च। ‘वीरो वीरयत्यमित्रान्, वेतेर्वा स्याद् गतिकर्मणो, वीरयतेर्वा’। निरु० १।७। (विचेतसम्) विशिष्टज्ञानवन्तम्, (श्रुत्यम्) श्रुतिषु प्रसिद्धम्, (शाकिनम्२) शक्तिमन्तम् (इन्द्रं नाम) इन्द्रनामानं परमेश्वरम् (अभि) अभिलक्ष्य (वचः यथा३) यथा विधिवचनमस्ति तथा (गाय) गायत सामगानं कुरुत। अत्र वचनव्यत्ययः। यद्वा ‘लोपस्त आत्मनेपदेषु’ इत्यात्मनेपदे विहितस्तकारलोपो बाहुलकात् परस्मैपदेऽपि भवति ॥३॥ इयं त्रिपदा पिपीलिकामध्या विराड् बृहती, आद्यन्तौ पादौ त्रयोदशाक्षरौ, मध्यमः पादोऽष्टाक्षरः ॥३॥
Essence
कामक्रोधाद्यन्तःशत्रूणां मानवसमाजे भ्रष्टाचारिणां च स्ववीरतया पराजेता, सर्वज्ञः, श्रुतिषु ख्यातः, सर्वकर्मक्षमश्च परमेश्वरः सर्वैः सामगानपूर्वकमभ्यर्चनीयः ॥३॥
Subject
अथ परमेश्वरस्य स्तुतिगानाय प्रेरयन्नाह।
Footnote
१. ऋ० ८।४६।१४, ऋषिः वशोऽश्व्यः। २. शाकिनम्। शाकनं शाकः, शक्तिरित्यर्थः। सा यस्यास्ति स शाकी। तं शाकिनम्, शक्तिमन्तमित्यर्थः—इति वि०। ३. श्रुत्यं वचो यथा। श्रुतौ भवं श्रुत्यम्। वचः वचनम्। यथा कश्चित् श्रुतौ भवं वचनं सत्यार्थत्वेन स्तौति तद्वत् स्तुहीत्यर्थः—इति वि०। वचः त्वदीयं यथा प्रवर्तते तथाभिगाय, न पुनरिन्द्रस्य गुणानुगुण्येन, तथा स्तोतुमशक्तेः—इति भ०। वाग् युष्मदीया यथा येन प्रकारेण प्रवर्तते गायत्र्या वा त्रिष्टुभा वा तथा गाय गायत स्तुतिं कुरुत—इति सा०।