Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 264

1875 Mantra
Devata- इन्द्रः Rishi- रेभः काश्यपः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣢च्छ꣣क्रा꣡सि꣢ परा꣣व꣢ति꣣ य꣡द꣢र्वा꣣व꣡ति꣢ वृत्रहन् । अ꣡त꣢स्त्वा गी꣣र्भि꣢र्द्यु꣣ग꣡दि꣢न्द्र के꣣शि꣡भिः꣢ सु꣣ता꣢वा꣣ꣳ आ꣡ वि꣢वासति ॥२६४॥

य꣢त् । श꣣क्र । अ꣡सि꣢꣯ । परा꣣व꣡ति꣣ । यत् । अर्वा꣣व꣡ति꣢ । वृ꣣त्रहन् । वृत्र । हन् । अ꣡तः꣢꣯ । त्वा꣣ । गीर्भिः꣢ । द्यु꣣ग꣢त् । द्यु꣣ । ग꣢त् । इ꣣न्द्र । केशि꣡भिः꣢ । सु꣣ता꣡वा꣢न् । आ । वि꣣वासति ॥२६४॥

Mantra without Swara
यच्छक्रासि परावति यदर्वावति वृत्रहन् । अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाꣳ आ विवासति ॥

यत् । शक्र । असि । परावति । यत् । अर्वावति । वृत्रहन् । वृत्र । हन् । अतः । त्वा । गीर्भिः । द्युगत् । द्यु । गत् । इन्द्र । केशिभिः । सुतावान् । आ । विवासति ॥२६४॥

Samveda - Mantra Number : 264
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शक्र) शक्तिशालिन् परमेश्वर ! (यत्) यस्मात्, त्वम् (परावति) सुदूरस्थे सूर्यनक्षत्रचन्द्रमण्डलादिषु, पराविद्याग्राह्ये मोक्षलोके वा (असि) विद्यसे, किञ्च हे (वृत्रहन्) अविद्यादिदोषहन्तः ! (यत्) यस्मात्, त्वम् (अर्वावति) समीपस्थे पर्वतसरित्सागरादौ, अपराविद्याग्राह्ये इहलोकैश्वर्ये वा (असि) विद्यसे, (अतः) अस्मात् हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर ! (सुतावान्) अभिषुतोपासनारसो यजमानः (त्वा) त्वाम् (द्युगत्२) क्षिप्रम्। द्युगत् इति क्षिप्रनाम निघं० २।१५। यद्वा दिवं मोक्षधाम प्रति गच्छन् यथा स्यात्तथा (केशिभिः) ज्ञानप्रकाशेन प्रकाशमानाभिः। केशी केशा रश्मयः तैस्तद्वान् भवति, काशनाद् वा प्रकाशनाद् वा। निरु० १२।२६। (गीर्भिः) वेदवाग्भिः (आ विवासति) समन्ततः परिचरति। विवासतिः परिचर्याकर्मा। निघं० ३।५। परमेश्वरस्य दूरस्थनिकटस्थरूपम् अन्यत्रापि वर्णितम् यथा, ‘तद् दू॒रे तद्वऺन्ति॒के’ य० ४०।५’, ‘दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम्।’ मु० ३।१।७ इति ॥२॥ अत्र शक्र, वृत्रहन्, इन्द्र इति सर्वेषामिन्द्रपर्यायत्वेन पौनरुक्त्यप्रतीतेः, योगार्थग्रहणेन च पुनरुक्तिपरिहारात् पुनरुक्तवदाभासोऽलङ्कारः। ‘वति, वति’ ‘सुता, सति’ इत्यत्र छेकानुप्रासः ॥
Essence
सर्वकर्मक्षमो दूरात् सुदूरे निकटान्निकटे विद्यमानोऽविद्यापापादीनां हन्ता सकलैश्वर्यशाली परमात्मा ज्ञानविज्ञानप्रकाशपूर्णानां साममन्त्राणां गानेन भक्तिप्रवणैः सर्वैः क्षिप्रमेव समुपासनीयस्तदुपासनेन चैहिकपारलौकिकानन्दः प्रापणीयः ॥२॥
Subject
अथ परमात्मनो महिमानमुपवर्ण्य तदुपासनाविषयमाह।
Footnote
१. ऋ० ८।९७।४। २. द्युगत् क्षिप्रम्—इति वि०। दिवं स्तुतिं गच्छन् स्तुतवान् यजमानः—इति भ०। द्युगत् गम्लृ सृप्लृ गतौ क्विपि ‘गमः क्वा’विति अनुनासिकलोपः। तुक्। सुपां सुलुगिति भिसो लुक्। द्युलोकं प्रति गच्छद्भिः स्वभासा सर्वतो गच्छद्भिः, केशिभिः केशवद्भिः हरिभिरिव स्थिताभिः गीर्भिः—इति सा०।