Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 263

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣣त्य꣢मि꣣त्था꣡ वृषे꣢꣯दसि꣣ वृ꣡ष꣢जूतिर्नोऽवि꣣ता꣢ । वृ꣢षा꣣꣬ ह्यु꣢꣯ग्र शृण्वि꣣षे꣡ प꣢रा꣣व꣢ति꣣ वृ꣡षो꣢ अर्वा꣣व꣡ति꣢ श्रु꣣तः꣢ ॥२६३॥

स꣣त्य꣢म् । इ꣣त्था꣢ । वृ꣡षा꣢꣯ । इत् । अ꣣सि । वृ꣡ष꣢꣯जूतिः । वृ꣡ष꣢꣯ । जू꣣तिः । नः । अविता꣢ । वृ꣡षा꣢꣯ । हि । उ꣣ग्र । शृण्विषे꣢ । प꣣राव꣡ति꣢ । वृ꣡षा꣢꣯ । उ꣣ । अर्वाव꣡ति꣢ । श्रु꣣तः꣢ ॥२६३॥

Mantra without Swara
सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता । वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥

सत्यम् । इत्था । वृषा । इत् । असि । वृषजूतिः । वृष । जूतिः । नः । अविता । वृषा । हि । उग्र । शृण्विषे । परावति । वृषा । उ । अर्वावति । श्रुतः ॥२६३॥

Samveda - Mantra Number : 263
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमेश्वर ! (सत्यम् इत्था२) सत्यम्, सत्यम्। इत्था इति सत्यनाम। निघं० ३।१०। द्वौ सत्यवाचकौ समवेतौ सत्यस्य निश्चयत्वं द्योतयतः। त्वम् (वृषा इत्) वर्षकत्वात् साक्षात् पर्जन्य एव (असि) वर्तसे। किञ्च वृषजूतिः विद्युदादिपदार्थानां मनोवेगवद् वेगप्रदाता। वृषा हि मनः श० १।४।४।३। जूतिरित्यत्र जू गतौ इति सौत्राद् धातोः ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च अ० ३।३।९७’ इति क्तिन्, धातोः दीर्घत्वं च निपात्यते। वृष्णः मनसः जूतिरिव वेग इव जूतिः वेगो यस्मात् स (वृषजूतिः)। वृषन् शब्दः कनिन् प्रत्ययान्तत्वादाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः शिष्यते। (नः अविता) अस्माकं रक्षकश्चासि। हे (उग्र) प्रबलैश्वर्य ! त्वम् (परावति) परागते उत्कृष्टे मोक्षलोके (वृषा हि) मोक्षानन्दानां वर्षकः खलु (शृण्विषे) श्रूयसे, (अर्वावति) अर्वाग्भवे इहलोकेऽपि (वृषः) धर्मार्थकामानन्दानां वर्षकः (श्रुतः) आकर्णितः असि ॥१॥ अत्र ‘वृषे, वृष, वृषा, वृषो’ इति वृत्त्यनुप्रासालङ्कारः। ‘वृषेदसि’ इत्यत्र इन्द्रे पर्जन्यत्वारोपात् रूपकम्। ‘वति-वति’ इति छेकानुप्रासः ॥१॥
Essence
निखिलगुणगणाग्रणीरिह परलोके च विविधानन्दवर्षकः परोपकारपरायणः परमेश्वरोऽस्माभिः कुतो न वन्द्यः ॥१॥
Subject
अथ परमेश्वरस्य गुणा वर्ण्यन्ते।
Footnote
१. ऋ० ८।३३।१०, ऋषिः मेध्यातिथिः ‘नोऽविता’ इत्यत्र ‘नोऽवृतः’ इति पाठः। २. सत्यम् इत्थेति च सत्यमित्यर्थे वर्तते। सत्यं सत्यम् एव—इति भ०।