Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 262

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡दि꣢न्द्र꣣ ना꣡हु꣢षी꣣ष्वा꣡ ओजो꣢꣯ नृ꣣म्णं꣡ च꣢ कृ꣣ष्टि꣡षु꣢ । य꣢द्वा꣣ प꣡ञ्च꣢ क्षिती꣣नां꣢ द्यु꣣म्न꣡मा भ꣢꣯र स꣣त्रा꣡ विश्वा꣢꣯नि꣣ पौ꣡ꣳस्या꣢ ॥२६२॥

य꣢त् । इ꣣न्द्र । ना꣡हु꣢꣯षीषु । आ । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म्꣢ । च꣣ । कृष्टि꣡षु꣢ । यत् । वा꣣ । प꣡ञ्च꣢꣯ । क्षि꣣तीना꣢म् । द्यु꣣म्नम् । आ । भ꣣र । सत्रा꣢ । वि꣡श्वा꣢꣯नि । पौँ꣡स्या꣢꣯ ॥२६२॥

Mantra without Swara
यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु । यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौꣳस्या ॥

यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु । यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पौँस्या ॥२६२॥

Samveda - Mantra Number : 262
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) दानशौण्ड परमेश्वर ! (यत् नाहुषीषु) संघरूपेण परस्परं बद्धासु मानुषीषु प्रजासु। नहुष इति मनुष्यनामसु पठितम्। निघं० २।३। णह बन्धने धातोः ‘पॄनहिकलिभ्य उषच्। उ० ४।७६’ इति उषच् प्रत्ययः. (ओजः) संघबलम्। किञ्च (कृष्टिषु) कृष्यादिधनार्जनकर्मरतासु प्रजासु। कृष्टय इत्यपि मनुष्यनाम। निघं० २।३। (नृम्णम्) धनबलम्। नृम्णमिति धननाम। निघं० २।१०। (आ) आगच्छति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। (यद् वा) यच्च। वा इति समुच्चयार्थे निरुक्ते। १।५। (पञ्चक्षितीनाम्) निवासहेतुभूतानां पञ्चज्ञानेन्द्रियाणां पञ्चानां प्राणमनोबुद्धिचित्ताहंकाराणां वा (द्युम्नम्) यशः अस्ति। द्युम्नं द्योततेः, यशो वा अन्नं वा। निरु० ५।५। तत् (आभर) अस्मभ्यम् आहर। (सत्रा२) सहैव च। ‘सार्द्धं तु साकं सत्रा समं सह’ इत्यमरः ३।४।४। (विश्वानि) सर्वाणि पौंस्या पौंस्यानि धर्मार्थकाममोक्षरूपान् पुरुषार्थान् अपि, आहर। पुंसि भवं पौंस्यं पौरुषम्। पौंस्या इत्यत्र ‘शेश्छन्दसि बहुलम्’। अ० ६।१।७० इति शेर्लोपः ॥१०॥३
Essence
संघबलम्, ऐश्वर्यबलम्, इन्द्रियबलम्, प्राणसहचरितान्तःकरणचतुष्टयबलम्, धर्मार्थकाममोक्षाणां च बलं परमेश्वरकृपयास्मान् प्राप्नुयाद्, येनास्माकं मनुष्यजीवनं सफलं भवेत् ॥१०॥ अत्रेन्द्रस्य तत्संबद्धानां मित्रवरुणार्यम्णां च महत्त्ववर्णनपूर्वकं तत्स्तुत्यर्थं प्रेरणाद्, इन्द्रसकाशाद् ओजःक्रतुनृम्णद्युम्नादियाचनाद्, इन्द्रनाम्नाऽऽचार्यनृपतिसेनाध्यक्षादीनां चापि गुणकर्मवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम्। इति तृतीये प्रपाठके द्वितीयार्धे द्वितीया दशतिः। इति तृतीयाध्याये तृतीयः खण्डः ॥
Subject
अथ केषां केषां कस्को गुणोऽस्माभिः प्राप्तव्य इत्याह।
Footnote
१. ऋ० ६।४६।६, ऋषिः शंयुः बार्हस्पत्यः। २. यद्यपि सत्राशब्दः सत्यनामसु पठितः, तथापीह सर्वदाशब्दपर्यायो द्रष्टव्यः—इति वि०। सत्रा महान्ति—इति भ०, सा०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजप्रजाविषये व्याख्यातः।