Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 261

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
व꣣यं꣡ घ꣢ त्वा सु꣣ता꣡व꣢न्त꣣ आ꣢पो꣣ न꣢ वृ꣣क्त꣡ब꣢र्हिषः । प꣣वि꣡त्र꣢स्य प्र꣣स्र꣡व꣢णेषु वृत्रह꣣न्प꣡रि꣢ स्तो꣣ता꣡र꣢ आसते ॥२६१॥

व꣣य꣢म् । घ꣣ । त्वा । सुता꣡व꣢न्तः । आ꣡पः꣢꣯ । न । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । पवि꣡त्र꣢स्य । प्र꣣स्र꣡व꣢णेषु । प्र꣣ । स्र꣡व꣢꣯णेषु । वृ꣣त्रहन् । वृत्र । हन् । प꣡रि꣢꣯ । स्तो꣣ता꣡रः꣢ । आ꣣सते ॥२६१॥

Mantra without Swara
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥

वयम् । घ । त्वा । सुतावन्तः । आपः । न । वृक्तबर्हिषः । वृक्त । बर्हिषः । पवित्रस्य । प्रस्रवणेषु । प्र । स्रवणेषु । वृत्रहन् । वृत्र । हन् । परि । स्तोतारः । आसते ॥२६१॥

Samveda - Mantra Number : 261
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् ! (वृक्तबर्हिषः) वृक्तं परित्यक्तं बर्हिः अन्तरिक्षं याभिस्ताः। वृक्तमित्यत्र वृजी वर्जने धातोः क्तः प्रत्ययः। बर्हिरित्यन्तरिक्षनाम, निघं० १।३। (आपः न) मेघजलानि इव (वृक्तबर्हिषः) वृक्तानि परित्यक्तानि बर्हींषि सांसारिक्य एषणा यैस्तादृशाः, (सुतावन्तः) अभिषुतोपासनारसाः। षु प्रसवैश्वर्ययोः क्तप्रत्यये सुतः। सुतशब्दान्मतुपि रूपम्। पूर्वपदस्य दीर्घश्छान्दसः। (वयं घ) वयं हि (त्वा) त्वाम् स्तुमः इति शेषः। (वृत्रहन्) हे पापहन्तः परमेश्वर ! तव (स्तोतारः) स्तुतिकर्तारः उपासकाः (पवित्रस्य) शुद्धस्य सात्त्विकानन्दस्य (प्रस्रवणेषु) प्रवाहेषु (परि आसते) परिप्लवन्ते। परित्यक्तान्तरिक्षा आपो यथा नदीनिर्झरादिषु प्रवहन्तीत्यपि सूच्यते ॥९॥ अत्र श्लिष्टोपमालङ्कारः। किञ्च, कारणरूपमुत्तरार्द्धवाक्यं कार्यरूपं पूर्वार्द्धवाक्यं समर्थयतीति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः ॥९॥
Essence
यथा मेघजलान्याकाशं विहाय भूमिमागत्य सस्यवनस्पत्यादिकं प्रसुवन्ति, तथैव वयं पुत्रैषणावित्तैषणालोकैषणादीनि विहाय परमात्मानमुपगम्यानन्दरसं प्रसुयाम ॥९॥
Subject
अथ कुतो वयं परमेश्वरस्योपासनां कुर्म इत्याह।
Footnote
१. ऋ० ८।३३।१, साम० ८६४, अथ० २०।५२।१, २०।५७।१४, सर्वत्र मेध्यातिथिः ऋषिः।