Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 260

1875 Mantra
Devata- इन्द्रः Rishi- रेभः काश्यपः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृण꣣ग्भ꣡वा꣢ नः सध꣣मा꣡द्ये꣢ । त्वं꣡ न꣢ ऊ꣣ती꣢꣫ त्वमिन्न꣣ आ꣢प्यं꣣ मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृणक् ॥२६०॥

मा꣢ । नः꣣ । इन्द्र । प꣡रा꣢꣯ वृ꣣णक् । भ꣡व꣢꣯ । नः꣣ । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । त्वम् । नः꣣ । ऊती꣢ । त्वम् । इत् । नः꣣ । आ꣡प्य꣢꣯म् । मा । नः꣢ । इन्द्र । प꣡रा꣢꣯ । वृ꣣णक् ॥२६०॥

Mantra without Swara
मा न इन्द्र परा वृणग्भवा नः सधमाद्ये । त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥

मा । नः । इन्द्र । परा वृणक् । भव । नः । सधमाद्ये । सध । माद्ये । त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा । नः । इन्द्र । परा । वृणक् ॥२६०॥

Samveda - Mantra Number : 260
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् परब्रह्म आचार्य राजन् वा ! त्वम् (नः) अस्मान् (मा परावृणक्) मा परित्याक्षीः। परा पूर्वो वृजी वर्जने रौधादिकः, लङ्, माङ्योगे अडभावः। (सधमाद्ये) सह माद्यन्ति जना अत्रेति सधमाद्यः गृहं, यज्ञः, गुरुकुलं, सभास्थलं, राष्ट्रादिकं वा, तत्र (नः) अस्माकम् (भव) सहायको वर्तस्व। (त्वम् नः) अस्माकम् (ऊती) ऊत्यै रक्षायै भव। ऊति- शब्दाच्चतुर्थ्येकवचने ‘सुपां सुलुक्’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (त्वम् इत्) त्वमेव (नः) अस्माकम् (आप्यम्२) बन्धुः भव। अत्र बन्धुवाचकात् आपिशब्दात् स्वार्थे यत् प्रत्ययो ज्ञेयः। हे (इन्द्र) परमात्मन् आचार्य राजन् वा ! (नः मा परावृणक्) अस्मान् असहायान् मा परित्याक्षीः। अत्र पुनरुक्तिरुत्कटेच्छाद्योतनार्था। तथाह निरुक्तकारः ‘अभ्यासे भूयांसमर्थं मन्यन्ते, यथाऽहो दर्शनीया, अहो दर्शनीया (निरु० १०।४०)’ इति ॥८॥ अत्र श्लेषालङ्कारः ॥८॥
Essence
परमात्मानं गुरून् नृपतिं च यथायोग्यं सम्पूज्य सत्कृत्य च तेभ्यो बहुमूल्या लाभाः प्राप्तव्याः ॥८॥
Subject
अथ पुनः परमेश्वर आचार्यो नृपतिश्च प्रार्थ्यते।
Footnote
१. ऋ० ८।९७।७ ‘सधमाद्ये’ इत्यत्र ‘सधमाद्यः’ इति पाठः। २. आप्यं ज्ञातेयम्, बन्धुः इत्यर्थः—इति भ०, सा०।