Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 259

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢ । शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥२५९॥

इ꣢न्द्र꣢꣯ । क्र꣡तु꣢꣯म् । नः꣣ । आ꣢ । भ꣣र । पिता꣢ । पु꣣त्रे꣡भ्यः꣢ । पु꣣त् । त्रे꣡भ्यः꣢꣯ । य꣡था꣢꣯ । शि꣡क्ष꣢꣯ । नः꣣ । अस्मि꣢न् । पु꣣रुहूत । पुरु । हूत । या꣡म꣢꣯नि । जी꣣वाः꣢ । ज्यो꣡तिः꣢꣯ । अ꣣शीमहि ॥२५९॥

Mantra without Swara
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥

इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । पुत् । त्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । पुरु । हूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥२५९॥

Samveda - Mantra Number : 259
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यप्रद जगदीश्वर आचार्य राजन् वा ! (नः) अस्मभ्यम् (क्रतुम्) विज्ञानं च कर्म च। क्रतुरिति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (आभर) आहर, (यथा) येन प्रकारेण (पिता) जनकः (पुत्रेभ्यः) पुत्रपुत्रीभ्यः। पुत्राश्च पुत्र्यश्च इत्येकशेषः। प्रज्ञां च कर्म च आहरति। हे (पुरुहूत) बहुस्तुत ! त्वम् (अस्मिन्) पुरो विद्यमाने (यामनि२) जीवनमार्गे जीवनयज्ञे वा योगमार्गे वा। यान्ति अस्मिन्निति यामा मार्गः ‘अर्तिस्तुसु० उ० १।१४०’ इति मन् प्रत्ययः। (नः) अस्मभ्यम् अस्मान् वा। संहितायां ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। (शिक्ष) तादृशं सामर्थ्यं प्रयच्छ शिक्षय वा। शिक्षतिः दानकर्मा। निघं० ३।२०। यद्वा शिक्ष विद्योपादाने, लुप्तणिच्कं रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। येन (जीवाः) जीविता जागरूकाश्च सन्तो वयम् (ज्योतिः३) आशारूपं कर्तव्याकर्त्तव्यदर्शनरूपम् आत्मरूपं वा ज्योतिः, ब्रह्मणो दिव्यं प्रकाशं वा (अशीमहि) प्राप्नुयाम। अशूङ् व्याप्तौ स्वादिः, लिङ् ॥७॥४ अत्र श्लेष उपमालङ्कारश्च ॥७॥
Essence
यथा पिता सन्तानेभ्यो विद्यां कर्मकरणं मार्गे चलनं धावनं च शिक्षयति येनात्मनिर्भरा भूत्वा ते जीवने साफल्यं प्राप्नुवन्ति, तथैव परमात्माऽऽचार्यो नृपतिश्चाऽस्मभ्यं प्रभूतं विज्ञानं, महान्तं कर्मयोगम्, अतुलं सामर्थ्यं, वरिष्ठां शिक्षां च प्रयच्छेत्, येन वयं जीवनान्निराशान्धकारमपसार्य जीविता जागरिताश्च सन्त उत्तरोत्तरं ज्योतिः पश्यन्तश्चरमं पारमेश्वरं दिव्यं ज्योतिरधिगच्छेम ॥७॥५
Subject
अथेन्द्रनाम्ना परमेश्वर आचार्यो नृपतिश्च प्रार्थ्यते।
Footnote
१. ऋ० ७।३२।२६, ऋषिः वसिष्ठः वासिष्ठः शक्तिर्वा, अथ० १८।३।६७ यमः देवता, अथर्वा ऋषिः, २०।७९।१ वसिष्ठः शक्तिर्वा ऋषिः, साम० १४५६। २. यामनि। यान्ति देवा अस्मिन् स यामा यज्ञः। तस्मिन् यामनि यज्ञे इत्यर्थः—इति वि०। यज्ञे—इति भ०। यज्ञे, यद्वा सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि—इति सा०। यान्ति यस्मिन् तस्मिन् वर्तमाने समये—इति ऋ० ७।३२।२६ भाष्ये द०। ३. ज्योतिः ज्ञानम्—इति वि०। सूर्यम्—इति भ०। प्रकाशस्वरूपं परमात्मानं त्वाम्—इति ऋ० ७।३२।२६ भाष्ये द०। ४. सायण इमं मन्त्रं वैकल्पिकत्वेन परमात्मपक्षेऽपि व्याचष्टे। तथा हि—“हे इन्द्र भूतानि प्रकाशयितः इन्द्र [तथा च यास्कः “इन्द्र इरां दृणातीति वा इरां ददातीति वा, इरां दधातीति वा, इरां दारयत इति वा, इरां धारयत इति वा, इन्दवे द्रवतीति वा, इन्दौ रमत इति वा, इन्धे भूतानीति वा, तद्यदेनं प्राणैः समैन्धन् तदिन्द्रस्येन्द्रत्वमिति विज्ञायते (निरु० १०।८) इति।] एवंगुणविशिष्ट परमात्मन् ! त्वं क्रतुं कर्म स्वविषयज्ञानं वा नः अस्मभ्यम् आभर आहर प्रयच्छेत्यर्थः। तत्र दृष्टान्तः—पिता पुत्रेभ्यो यथा लोके विद्यां धनं वा प्रयच्छति तथा नोऽस्मभ्यं शिक्ष विद्यां प्रयच्छ। हे पुरुहूत बहुभिराहूत इन्द्र, यामनि सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि जीवा वयं ज्योतिः परं ज्योतिः अशीमहि सेवेमहि” इति। ५. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमात्मपक्षे व्याख्यातवान्।