Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 258

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
बृ꣣ह꣡दिन्द्रा꣢꣯य गायत꣣ म꣡रु꣢तो वृत्र꣣ह꣡न्त꣢मम् । ये꣢न꣣ ज्यो꣢ति꣣र꣡ज꣢नयन्नृता꣣वृ꣡धो꣢ दे꣣वं꣢ दे꣣वा꣢य꣣ जा꣡गृ꣢वि ॥२५८॥

बृ꣣ह꣢त् । इ꣡न्द्रा꣢꣯य । गा꣣यत । म꣡रु꣢꣯तः । वृ꣣त्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । ये꣡न꣢꣯ । ज्यो꣡तिः꣢꣯ । अ꣡ज꣢꣯नयन् । ऋ꣣तावृ꣡धः꣢ । ऋ꣣त । वृ꣡धः꣢꣯ । दे꣣व꣢म् । दे꣣वा꣡य꣢ । जा꣡गृ꣢꣯वि ॥२५८॥

Mantra without Swara
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥

बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहन्तमम् । वृत्र । हन्तमम् । येन । ज्योतिः । अजनयन् । ऋतावृधः । ऋत । वृधः । देवम् । देवाय । जागृवि ॥२५८॥

Samveda - Mantra Number : 258
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मरुतः) मनुष्याः ! यूयम् (इन्द्राय) परमैश्वर्यवते परमात्मने (वृत्रहन्तमम्) विघ्नानां पापानां च अतिशयेन विनाशकं (बृहत्२) ‘त्वामिद्धि हवामहे’ (साम० ˜२३४, ८०९) इत्यस्यामृचि गीयमानं बृहदाख्यं सामगानम् (गायत) गीतिपूर्वकं सलयमुच्चारयत, (येन) गानेन (ऋतावृधः३) सत्यस्य वर्द्धयितारः सिद्धा योगिनः, (देवाय) योगाङ्गेषु क्रीडते साधकाय। दीव्यतीति देवः। दिवु क्रिडाविजिगीषाद्यर्थः, पचाद्यच्। (देवम्) प्रकाशमानम्, (जागृवि) जागरणशीलम्। जागर्तीति जागृविः। ‘जॄशॄस्तॄजागृभ्यः क्विन्’ उ० ४।५५ इति जागृधातोः क्विन् प्रत्ययः। तस्य नित्वाद् ‘ञ्नित्यादिर्नित्यम्’ अ० ६।१।१९१ इत्याद्युदात्तत्वम्। (ज्योतिः) अन्तःप्रकाशम् (अजनयन्) जनयन्ति। अत्र लडर्थे लङ् ॥६॥४
Essence
येन सामगानेन सिद्धा योगिनो योगाभ्यासिनं शिष्यं योगविद्यायां निष्णातं कुर्वन्ति तत् सामगानमस्माभिरपि गेयम् ॥६॥
Subject
अथ मनुष्या इन्द्रस्य स्तुतिगीतानि गातुं प्रेर्यन्ते।
Footnote
१. ऋ० ८।८९।१, य० २०।३०। २. बृहत् महत्, सुष्ठु इत्यर्थः। इन्द्राय गायत उच्चारयत। किं तत् ? सामर्थ्यात् स्तुतिरूपम्—इति वि०। महत् स्तोत्रं बृहदाख्यमेव वा साम—इति भ०। बृहत् साम—इति सा०। महत् साम—इति य० २०।३० भाष्ये द०। ३. विवरणकारस्तु सम्बोधनान्तं पदमिदं मन्यते—‘हे ऋतावृधः, ऋतो यज्ञः तं ये वर्धयन्ति ते ऋतावृधः। तेषां सम्बोधनं ‘हे ऋतावृधः’ इति। ‘यज्ञस्य वर्धयितारः आङ्गिरसः’—इति भ०। ऋतस्य सत्यस्य वा वर्धका विश्वेदेवाः अङ्गिरसो वा ऋषयः—इति सा०। ४. दयानन्दर्षिर्यजुर्भाष्ये मन्त्रमिमं सामगानविषये व्याचष्टे।