Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 257

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣢ व꣣ इ꣡न्द्रा꣢य बृह꣣ते꣡ मरु꣢꣯तो꣣ ब्र꣡ह्मा꣢र्चत । वृ꣣त्र꣡ꣳ ह꣢नति वृत्र꣣हा꣢ श꣣त꣡क्र꣢तु꣣र्वज्रेण श꣣त꣡प꣢र्वणा ॥२५७॥

प्र꣢ । वः꣢ । इ꣡न्द्रा꣢꣯य । बृ꣣हते꣢ । म꣡रु꣢꣯तः । ब्र꣡ह्म꣢꣯ । अ꣣र्चत । वृत्र꣢म् । ह꣢नति । वृत्रहा꣢ । वृ꣣त्र । हा꣢ । श꣣त꣡क्र꣢तुः । श꣣त꣢ । क्र꣣तुः । व꣡ज्रे꣢꣯ण । श꣣त꣡प꣢र्वणा । श꣣त꣢ । प꣣र्वणा ॥२५७॥

Mantra without Swara
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रꣳ हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥

प्र । वः । इन्द्राय । बृहते । मरुतः । ब्रह्म । अर्चत । वृत्रम् । हनति । वृत्रहा । वृत्र । हा । शतक्रतुः । शत । क्रतुः । वज्रेण । शतपर्वणा । शत । पर्वणा ॥२५७॥

Samveda - Mantra Number : 257
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (मरुतः२) मदीयाः प्राणाः ! (वः) यूयम् (बृहते) महते (इन्द्राय) परमेश्वराय (ब्रह्म) सामस्तोत्रम् (प्र अर्चत३) प्रेरयत। धातूनामनेकार्थत्वाद् अर्चतिरत्र प्रेरणकर्मा। सः (वृत्रहा) पापहन्ता (शतक्रतुः४) बहुप्रज्ञः बहुकर्मा च परमेश्वरः (शतपर्वणा) बहुमुखेन (वज्रेण) वीर्येण। वीर्यं वै वज्रः। श० ७।३।१।१९। (वृत्रम्) पापम् (हनति) हन्यात्। ‘हन हिंसागत्योः, लेट्प्रयोगः, लेटोऽडाटौ’ अ० ३।४।९४ इत्यडागमः ॥ अथ द्वितीयः—राष्ट्रपरः। हे (मरुतः) राष्ट्रवासिनः प्रजाजनाः ! (वः) यूयम् (बृहते) महते (इन्द्राय) वीराय नृपतये सेनाध्यक्षाय वा (ब्रह्म) स्तोत्रम्, प्रार्थनावचनम् (अर्चत) प्रेरयत। सः (वृत्रहा) अत्याचारिणां हन्ता (शतक्रतुः) अनेकेषां शत्रुविध्वंसकर्मणां कर्ता सेनाध्यक्षः (शतपर्वणा) वज्रेण शतकीलकयुक्तेन गदादिकेन वज्रेण, शतगोलकगोलिकाधारकेण शतघ्नीभुशुण्ड्यादिना वा शस्त्रेण (वृत्रम्) राष्ट्रोन्नतिप्रतिबन्धकं मायाविनं शत्रुम् (हनति) हन्यात् ॥५॥५ अत्र श्लेषालङ्कारः। ‘वृत्रं, वृत्र’ इत्यत्र छेकानुप्रासः, ‘शत, शत’ इत्यत्र च लाटानुप्रासः ॥५॥
Essence
यथा परमेश्वर उपासकस्य कामक्रोधादीन् पापादींश्च रिपून् हिनस्ति, तथैव सेनाध्यक्षेण राष्ट्रस्य सर्वे शत्रवः समूलमुन्मूलनीयाः ॥५॥
Subject
अथ परमेश्वरः सेनाध्यक्षश्च शत्रून् हन्यादित्याह।
Footnote
१. ऋ० ८।८९।३, य० ३३।९६। २. हे मरुतः मदीया ऋत्विजः—इति वि०। हे मरुतः स्तोतारः, महत् रुवन्तीति मरुतः—इति भ०। हे मरुतः मितराविणः स्तोतारः—इति सा०। ३. प्रार्चत प्रकुरुत इत्यर्थः—इति भ०। प्रार्चत प्रोच्चारयत—इति सा०। ४. द्रष्टव्यम्—२१६ संख्यकमन्त्रस्य भाष्यम्। ५. यजुर्भाष्ये दयानन्दर्षिरिमं मन्त्रं मनुष्यैः किं कर्तव्यमिति विषये व्याख्यातवान्। हे (मरुतः) मनुष्याः इत्यादि।