Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 256

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣡ त्वा꣢ पू꣣र्व꣡पी꣢तय꣣ इ꣢न्द्र꣣ स्तो꣡मे꣢भिरा꣣य꣡वः꣢ । स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢स्वरन्रु꣣द्रा꣡ गृ꣢णन्त पू꣣र्व्य꣢म् ॥२५६॥

अ꣣भि꣢ । त्वा꣣ । पूर्व꣡पी꣢तये । पू꣣र्व꣢ । पी꣣तये । इ꣡न्द्र꣢꣯ । स्तो꣡मे꣢꣯भिः । आ꣣य꣡वः꣢ । स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । ऋ꣣भ꣡वः꣢ । ऋ꣣ । भ꣡वः꣢꣯ । सम् । अ꣣स्वरन् । रुद्राः꣢ । गृ꣣णन्त पूर्व्य꣢म् ॥२५६॥

Mantra without Swara
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥

अभि । त्वा । पूर्वपीतये । पूर्व । पीतये । इन्द्र । स्तोमेभिः । आयवः । समीचीनासः । सम् । ईचीनासः । ऋभवः । ऋ । भवः । सम् । अस्वरन् । रुद्राः । गृणन्त पूर्व्यम् ॥२५६॥

Samveda - Mantra Number : 256
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमेश्वर ! (पूर्वपीतये२) पूर्वा श्रेष्ठा पीतिः पानं रसास्वादो यस्य तस्मै आनन्दाय। पूर्वशब्दो मरुद्वृधादित्वादन्तोदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (आयवः) आयुष्मन्तो मनुष्याः। आयव इति मनुष्यनाम। निघं० २।३। (स्तोमेभिः) स्तोमैः स्तोत्रैः (त्वा) त्वाम् (अभि) अभिष्टुवन्ति। उपसर्गबलाद् योग्यक्रियाध्याहारः। (समीचीनासः) समीचीनाः सम्यग् गतिमन्तः, शुभकर्मणि रताः, परस्परं संगताः वा। सं पूर्वाद् अञ्चु गतौ इत्यस्य रूपम्। ‘आज्जसेरसुक्’ अ० ७।१।५० इति जसोऽसुगागमः। (ऋभवः) मेधाविनः। ऋभुरिति मेधाविनाम। निघं० ३।१५। (समस्वरन्) त्वां संस्तुवन्ति। सं पूर्वात् स्वृ शब्दोपतापयोरिति धातोर्लडर्थे लङ्। (रुद्राः) सदुपदेशकाः३ प्राणसाधकाः स्तोतारः। रुद्र इति स्तोतृनामसु पठितम्। निघं० ३।१६। प्राणा वै रुद्राः। जै० उ० ब्रा० ४।२।६। लक्षणया प्राणवन्तः प्राणसाधका वा। (पूर्व्यम्) पूर्वस्मिन्नपि काले भवः पूर्व्यः तम् सनातनं त्वाम् (गृणन्त) गृणन्ति अर्चन्ति। गृणातिः अर्चतिकर्मा। निघं० ३।१४। गॄ शब्दे, क्र्यादिः, लडर्थे लङ्, आत्मनेपदं छान्दसम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडभावः ॥४॥४
Essence
आयुष्मन्तः सामान्यजनाः, कर्मयोगिनो मेधाविजनाः, सदुपदेशकाः स्तोतृजनाः, सर्वेऽपि यं परमात्मानमाराध्नुवन्ति सोऽस्माभिरपि कुतो नाराधनीयः ॥४॥
Subject
अथ के के परमात्मानं स्तुवन्तीत्याह।
Footnote
१. ऋ० ८।३।७, अथ० २०।९९।१, साम० १५३७। २. (पूर्वपीतये) पूर्वं पीतिः पानं सुखभागो यस्मिन् तस्मा आनन्दाय—इति ऋ० १।१९।९ भाष्ये द०। अनादिकालप्रवृत्ताय सोमपानाय—इति वि०। प्रथमपानाय—इति भ०। पूर्वपीतये सर्वेभ्यो देवेभ्यः पूर्वं प्रथमतः एव सोमस्य पानाय। सवनमुखे हि चमसगणैः इन्द्रस्यैव सोमो हूयते—इति सा०। ३. रुतः सत्योपदेशान् राति ददाति (इति रुद्रः)—इति ऋ० १।११४।३ भाष्ये द०। ४. आयवः ऋत्विग्लक्षणा मनुष्याः। कीदृशा मनुष्याः ? समीचीनासः, सङ्गताः सहभूता इत्यर्थः। ऋभवः महान्तः। रुद्राः रोदनस्वभावकाः स्तुत्युच्चारणशीला इत्यर्थः। पूर्व्यं पूर्वतनमित्यर्थ—इति वि०। समीचीनासः सङ्गताः। ऋभवः दीप्ताः रुद्राः स्तोतारः, रुवन्तः शब्दायमानाः। रुवन्ति उपगायन्ति इति रुद्राः—इति भ०। समीचीनाः सङ्गताः, ऋभवः प्रथमवाचकेन शब्देन त्रयोऽप्युपलक्ष्यन्ते ऋभुर्विभ्वा वाज इत्येते च। रुद्रा रुद्रयुता मरुतश्च—इति सा०।