Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 255

1875 Mantra
Devata- मित्रावरुणादित्याः Rishi- जमदग्निर्भार्गवः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣢ मि꣣त्रा꣢य꣣ प्रा꣢र्य꣣म्णे꣡ स꣢च꣣꣬थ्य꣢꣯मृतावसो । व꣣रूथ्ये꣢३ व꣡रु꣢णे꣣ छ꣢न्द्यं꣣ व꣡चः꣢ स्तो꣣त्र꣡ꣳ राज꣢꣯सु गायत ॥२५५॥

प्र꣢ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । प्र । अ꣣र्यम्णे꣢ । स꣣च꣡थ्य꣢म् । ऋ꣣तावसो । ऋत । वसो । व꣣रूथ्ये꣢꣯ । व꣡रु꣢꣯णे । छ꣡न्द्य꣢꣯म् । व꣡चः꣢꣯ । स्तो꣣त्र꣢म् । रा꣡ज꣢꣯सु । गा꣣यत ॥२५५॥

Mantra without Swara
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रꣳ राजसु गायत ॥

प्र । मित्राय । मि । त्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतावसो । ऋत । वसो । वरूथ्ये । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजसु । गायत ॥२५५॥

Samveda - Mantra Number : 255
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—वाय्वादिपरः। हे (ऋतावसो) सत्यधन मानव ! पूर्वपदस्य दीर्घश्छान्दसः। त्वम् (मित्राय) वायवे। अयं वै वायुर्मित्रो योऽयं पवते। श० ६।५।७।१४। (अर्यम्णे२) आदित्याय। अर्यमा आदित्यः, अरीन् नियच्छति। निरु० ११।२३। असौ वाऽऽदित्योऽर्यमा। तै० सं० २।३।४।१। अपि च (वरूथ्ये) वरूथं शरीररूपं गृहम्, तस्मै हिताय। वरूथमिति गृहनाम। निघं० ३।४। (वरुणे) वरुणाय अग्नये। यो यै वरुणः, सोऽग्निः। श० ५।२।४।१३। वरूथ्ये, वरुणे इत्युभयत्र चतुर्थ्येकवचनस्य ‘सुपां सुलुक्’ अ० ७।१।३९ इति शे आदेशः। (सचथ्यम्) सेवनार्हम्। षच सेचने सेवने च। सचथः सेवनं, तदर्हम्। अर्हार्थे यत् प्रत्ययः। (छन्द्यम्३) छन्दोबद्धम् (वचः) स्तुतिवचनम् (प्र प्र) प्रगाय प्रगाय। पुनरुक्तिर्दाढ्यार्था। गायत इत्युत्तरत्र पाठात् ‘ऋतावसो’ इत्येकवचनानुसारेण ‘गाय’ इत्यूहनीयम्। हे भ्रातरः ! य़ूयमपि (राजसु) राजमानेषु पूर्वोक्तेषु मित्रार्यमवरुणेषु, तद्विषये इत्यर्थः, (स्तोत्रम्) स्तुतिवचनम् (गायत) गानविषयीकुरुत ॥ अथ द्वितीयः—प्राणपरः। हे (ऋतावसो४) ऋतं प्राणायामयज्ञ एव वसु धनं यस्य तादृश प्राणसाधक ! ऋतमिति यज्ञवाचकम् निरुक्ते प्रोक्तम्। ऋतस्य योगे यज्ञस्य योगे इति। निरु० ६।२२। त्वम् (मित्राय) पूरकप्राणाय। प्राणो मित्रम्। जै० उ० ३।३।६। (अर्यम्णे) कुम्भकप्राणाय। फुप्फुसयोः पूरितः यः अरीन् रुधिरे विद्यमानान् रोगकृमीन् नियच्छति तस्मै। किञ्च, (वरूथ्ये) शरीरगृहस्य हितकराय (वरुणे) वरुणाय रेचकप्राणाय। वारयति बहिर्निस्सारयति शरीरस्थानि मलानि यः स वरुणः। (सचथ्यम्) सह पठितुं योग्यम्। षच समवाये धातोर्बाहुलकादौणादिके ‘अथ’ प्रत्यये सचथः इति, तदर्हम्। (छन्द्यम्) छन्दोबद्धम् (वचः) प्राणमहिमात्मकं वचनम् (प्र प्र) प्रकर्षेण गाय उच्चारय। हे इतरे प्राणसाधकाः ! यूयमपि (राजसु) प्रदीप्तेषु पूर्वोक्तेषु पूरक-कुम्भक-रेचकेषु प्राणेषु, तद्विषये इत्यर्थः, (स्तोत्रम्) प्राणमहत्त्वप्रतिपादकं स्तोमम् (गायत) मानपूर्वकमुच्चारयत ॥ प्राणमहत्त्वप्रतिपादका मन्त्रा अथर्ववेदे ११।४ इत्यत्र द्रष्टव्याः। यथा—नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते। प॒रा॒चीना॑य ते॒ नमः॑ प्रती॒चीनाय॑ ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ॥ अथ० ११।४।८ इत्यादिकम् ॥ अथ तृतीयः—राष्ट्रपरः। हे (ऋतावसो) ऋतं राष्ट्रयज्ञ एव वसु धनं यस्य तादृश राष्ट्रभक्त ! त्वम् इन्द्रेण सम्राजा सह (मित्राय) देशे विदेशे च मैत्रीसन्देशप्रसारकाय राज्याधिकारिणे, (अर्यम्णे) न्यायाध्यक्षाय५राज्याधिकारिणे, (वरूथ्ये) वरूथं सैन्यं तस्मै हिताय (वरुणे) शत्रुनिवारकाय सेनाध्यक्षाय च (सचथ्यम्) सहगानयोग्यम् (छन्द्यम्) छन्दोबद्धं गीतम् (प्र प्र) प्रकृष्टतया प्रगाय। हे इतरे राष्ट्रभक्ताः ! यूयमपि (राजसु) पूर्वोक्तानां राज्याधिकारिणां विषये (स्तोत्रम्) तत्तद्गुणवर्णनपरं स्तुतिगीतं (गायत) प्रोच्चारयत ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
परमात्मनः सृष्टौ ये वायुसूर्यवह्न्यादयः, मनुष्यस्य शरीरे ये प्राणादयः, राष्ट्रे च ये विभिन्ना राज्याधिकारिणः सन्ति तेषां गुणकर्मवर्णनपूर्वकं तेभ्यो यथायोग्यं लाभाः सर्वैः प्राप्तव्याः ॥३॥
Subject
इन्द्रातिरिक्तम् अन्ये के के गुणवर्णनेन स्तोतव्या इत्याह।
Footnote
१. ऋ० ८।१०१।५ ‘वरूथ्ये’ इत्यत्र ‘वरूथ्यं’ इति पाठः। २. “य ऋच्छति नियच्छति आकर्षणेन पृथिव्यादीन् स सूर्यलोकः।” इति य० ३।३१ भाष्ये द०। ३. छन्दशब्देन स्तुतिरुच्यते, तस्यां स्तुतौ भवमित्यर्थः—इति वि०। कमनीयम्—इति भ०। यज्ञगृहभवम्, अभिप्रायानुसारं वा०—इति सा०। ४. ऋतावसो यज्ञधन—इति भ०, सा०। ५. द्रष्टव्यम् १८५ संख्यकस्य मन्त्रस्य भाष्यम्।