Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 254

1875 Mantra
Devata- इन्द्रः Rishi- रेभः काश्यपः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
या꣡ इ꣢न्द्र꣣ भु꣢ज꣣ आ꣡भ꣢रः꣣꣬ स्व꣢꣯र्वा꣣ꣳ अ꣡सु꣢रेभ्यः । स्तो꣣ता꣢र꣣मि꣡न्म꣢घवन्नस्य वर्धय꣣ ये꣢ च꣣ त्वे꣢ वृ꣢क्त꣡ब꣢र्हिषः ॥२५४॥

याः꣢ । इ꣣न्द्र । भु꣡जः꣢ । आ꣡भ꣢꣯रः । आ꣣ । अ꣡भरः꣢꣯ । स्व꣢꣯र्वान् । अ꣡सु꣢꣯रेभ्यः । अ । सु꣣रेभ्यः । स्तोता꣡र꣢म् । इत् । म꣣घवन् । अस्य । वर्धय । ये꣢ । च꣣ । त्वे꣡इति꣢ । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । ॥२५४॥

Mantra without Swara
या इन्द्र भुज आभरः स्वर्वाꣳ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥

याः । इन्द्र । भुजः । आभरः । आ । अभरः । स्वर्वान् । असुरेभ्यः । अ । सुरेभ्यः । स्तोतारम् । इत् । मघवन् । अस्य । वर्धय । ये । च । त्वेइति । वृक्तबर्हिषः । वृक्त । बर्हिषः । ॥२५४॥

Samveda - Mantra Number : 254
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (इन्द्र) परमेश्वर ! (स्वर्वान्२) धनवान्, प्रकाशवान्, आनन्दवान् वा त्वम् (अ-सुरेभ्यः) न सुरा मदिरा येषां ते असुराः अमद्यपाः अनुन्मत्ताः३, प्रत्युत जागरूकाः तेभ्यः, तदर्थमिति भावः। चतुर्थ्यन्तमिदं बोध्यम्। (याः भुजः४) यान् अन्तःप्रकाशरूपान्, आनन्दरूपान् वा भोगान् (आ अभरः) आहरसि। आङ्पूर्वो हृञ् हरणे, लङ्, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः। ताभिः, हे (मघवन्) दिव्यसम्पत्तिशालिन् ! अस्य अध्यात्मयज्ञस्य (स्तोतारम्) स्तुतिकर्तारं यजमानम् (इत्) अवश्यम् (वर्धय) समर्धय, (ये च) ये जनाश्च (त्वे) त्वयि त्वत्प्राप्तिनिमित्ते अध्यात्मयज्ञे। युष्मच्छब्दात् सप्तम्येकवचने युष्मदो मपर्यन्तस्य त्वादेशः विभक्तेश्च ‘सुपां सुलुक्’, अ० ७।१।३९ इति शे आदेशः। (वृक्तबर्हिषः) मार्गदर्शका ऋत्विजः सन्ति, तानपि वर्धय। वृक्तबर्हिषः इति ऋत्विङ्नाम। निघं० ३।१८ ॥ अथ द्वितीयः—राजप्रजापरः। हे (इन्द्र) शत्रुविदारक सम्पत्तिप्रदायक राजन् ! (स्वर्वान्) राजनीतिविद्याप्रकाशयुक्तः त्वम् (असुरेभ्यः) सुष्ठु रान्ति दानं कुर्वन्ति ये ते सुराः, न सुराः असुराः कृपणाः, कोष्ठेष्वेव राष्ट्रसम्पत्तेः सञ्चेतारः, तेभ्यः तेषां सकाशात्। अत्र पञ्चम्यन्तमिदं पदम्। (याः भुजः) याः भोग्य-सम्पदः (आ अभरः) अपहृत्यानीतवानसि, ताभिः (मघवन्) हे सम्पत्तिशालिन् ! (अस्य) राष्ट्रयज्ञस्य (स्तोतारम्) स्तुतिकर्तारं, राष्ट्रगीतगायकं न तु राष्ट्रद्रोहिणम् (इत्) एव (वर्धय) समर्धय, (ये च त्वे) तुभ्यम् त्वत्साहाय्यार्थम् (वृक्तबर्हिषः) आस्तीर्णयज्ञाः राजपुरुषाः सन्ति, तानपि वर्धय। राजा कृपणान् धनपतीन् निर्धनेभ्यो धनं दानाय प्रेरयेत्, तथापि ये न दद्युस्तेषां धनं बलादपहरेदिति वैदिकी मर्यादा “अदि॑त्सन्तं चिदाघृणे॒ पूष॒न् दाना॑य चोदय” ऋ० ६।५३।३, “अ॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र” ऋ० १।८१।९ इत्यादिभिर्वेदवाक्यैः प्रमाणिता भवति। सैवास्मिन्नपि मन्त्रे प्रोक्ता ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा परमेश्वरः धार्मिकान् स्वोपासकान् ज्ञानप्रकाशेन दिव्यानन्देन च समर्धयति, तथैव राजापि राष्ट्रभक्तान् समर्धयेत् राष्ट्रद्रोहिणश्च दण्डयेत् ॥२॥
Subject
अथ परमात्मानं राजानं च प्रार्थयते।
Footnote
१. ऋ० ८।९७।१, अथ० २०।५५।२। २. स्वर् शब्दो धनवचनः, तद्यस्यास्ति स स्वर्वान्—इति वि०। सर्वधनवान्—इति भ०। सुखवान् स्वर्गवान् वा—इति सा०। ३. अयमर्थः पदकारस्य ‘अ-सुरेभ्यः’ इत्यवग्रहमनुसृत्य कृतः। अनवग्रहे तु असवः प्रशस्ताः प्राणा येषामिति प्रशंसार्थे मत्वर्थीयो रः। ४. भुजः। भुज्यन्ते इति भुजः अन्नानि—इति वि०। भुजः भोजनधनानि—इति भ०। भोक्तव्यानि धनानि—इति सा०।