Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 253

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
श꣣ग्ध्यू꣢३षु꣡ श꣢चीपत꣣ इ꣢न्द्र꣣ वि꣡श्वा꣢भिरू꣣ति꣡भिः꣢ । भ꣢गं꣣ न꣡ हि त्वा꣢꣯ य꣣श꣡सं꣢ वसु꣣वि꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मसि ॥२५३॥

श꣣ग्धि꣢ । उ꣣ । सु꣢ । श꣣चीपते । शची । पते । इ꣡न्द्र꣢꣯ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । भ꣡ग꣢꣯म् । न । हि । त्वा꣣ । यश꣡स꣢म् । व꣣सुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣡नु꣢꣯ । शू꣣र । च꣡रा꣢꣯मसि ॥२५३॥

Mantra without Swara
शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥

शग्धि । उ । सु । शचीपते । शची । पते । इन्द्र । विश्वाभिः । ऊतिभिः । भगम् । न । हि । त्वा । यशसम् । वसुविदम् । वसु । विदम् । अनु । शूर । चरामसि ॥२५३॥

Samveda - Mantra Number : 253
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शचीपते इन्द्र) प्रज्ञापते वाक्पते कर्मपते च परमात्मन् राजन् वा ! शची इति वाङ्नाम कर्मनाम प्रज्ञानाम च। निघं० १।११, २।१, ३।९। त्वम् अस्मान् (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (उ) खलु (सु) सम्यक्तया (शग्धि) शक्तान् कुरु। शक्लृ शक्तौ धातोः णिजर्थगर्भाल्लोटि छान्दसो विकरणस्य लुक्। भगं न सूर्यमिव (हि) खलु (यशसम्) यशस्विनम्, (वसुविदम्) ऐश्वर्यस्य लम्भयितारम् (त्वा अनु) त्वदाज्ञानुकूलम् हे (शूर) दानशूर, धर्मशूर, विद्याशूर, वीरताशूर परमात्मन् राजन् वा ! वयम् (चरामसि) आचरामः ॥१॥ अत्र श्लेष उपमालङ्कारश्च ॥१॥
Essence
परमात्मवद् राजापि वाग्मी, कर्मवान्, प्रज्ञावान्, प्रजारक्षणसमर्थः, सूर्यवत् कीर्तिमान्, प्रजाभ्य ऐश्वर्यस्य प्रापकः, दानवीरो, धर्मवीरो विद्यावीरो, युद्धवीरश्च भवेत्। प्रजाश्च परमात्मनो धर्मात्मनो नृपस्य चाज्ञानुकूलं वर्तेरन् ॥१॥
Subject
अथेन्द्रनाम्ना परमात्मा राजा च सम्बोध्यते।
Footnote
१. ऋ० ८।६१।५, अथ० २०।११८।१, साम० १५७९।