Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 252

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡था꣢ गौ꣣रो꣢ अ꣣पा꣢ कृ꣣तं꣢꣫ तृष्य꣣न्ने꣡त्यवे꣢रिणम् । आ꣣पित्वे꣡ नः꣢ प्रपि꣣त्वे꣢꣫ तूय꣣मा꣡ ग꣢हि꣣ क꣡ण्वे꣢षु꣣ सु꣢꣫ सचा꣣ पि꣡ब꣢ ॥२५२॥

य꣡था꣢꣯ । गौ꣣रः꣢ । अ꣣पा꣢ । कृ꣣त꣢म् । तृ꣡ष्य꣢न् । ए꣡ति꣢꣯ । अ꣡व꣢꣯ । इ꣡रि꣢꣯णम् । आ꣣पित्वे꣢ । नः꣣ । प्रपित्वे꣢ । तू꣡य꣢꣯म् । आ । ग꣣हि । क꣡ण्वे꣢꣯षु । सु । स꣡चा꣢꣯ पि꣡ब꣢꣯ ॥२५२॥

Mantra without Swara
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्रपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा पिब ॥२५२॥

Samveda - Mantra Number : 252
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यथा) येन प्रकारेण (गौरः२) गौरमृगः (तृष्यन्) पिपासितः सन् (इरिणम्) मरुप्रदेशम्। इरिणम्………अपरता अस्मादोषधय इति वा। निरु० ९।६। (अव) अवहाय (अपा) जलेन। नित्यबहुवचनान्तोऽपि ‘अप्’ शब्दः अत्रैकवचने प्रयुक्तः। ‘ऊडिदंपदाद्यप्०। अ० ६।१।१६५’ इति विभक्तिरुदात्ता। (कृतम्) परिपूर्णं जलाशयं जलप्रदेशं वा (एति) गच्छति, तथैव (आपित्वे) बन्धुत्वे प्रीतिरसे इत्यर्थः (प्रपित्वे) प्राप्ते सति। प्रपित्वे अभीके इत्यासन्नस्य। प्रपित्वे प्राप्ते, निरु– ३।२०। त्वत्प्रीतिजलेनास्माकं हृदये पूर्णे सतीत्यर्थः, त्वम् (तूयम्) शीघ्रम्। तूयमिति क्षिप्रनाम। निघं० २।१५। (नः) अस्मान् (आगहि) आगच्छ (कण्वेषु) मेधाविषु अस्मासु। कण्व इति मेधाविनाम। निघं० ३।१५। (सचा) सह, युगपदित्यर्थः। सचा सह। निघं० ५।५। (सु पिब) सम्यक्तया प्रीतिरसरूपं सोमम् आस्वादय ॥१०॥ अत्रोपमालङ्कारः। पित्वे, पित्वे इति यमकम्।
Essence
पिपासितो गौरमृगो यथा जलविहीनं मरुं परित्यज्य जलप्रचुरं प्रदेशं गच्छति तथैव प्रीतिरसपिपासुः परमात्मापि प्रीतिविहीनानि हृदयान्यपहाय प्रीतिरसनिर्भरहृदयान् मेधाविनः प्रतिपद्यते। परमात्मनः सर्वव्यापित्वात् तद्गमनागमनासंभवाद् वेदेषु बहुशो वर्णितं तद्गमनागमनप्रार्थनमालङ्कारिकमेवेति विज्ञेयम्। गमनेन तद्विस्मरणम्, आगमनेन च तत्स्मरणं तदाविर्भावो वा लक्ष्यते ॥१०॥ अत्रेन्द्रस्य अङ्गसन्धानादिकौशलवर्णनात्, सोमपानाय तस्याह्वानात्, तस्य गुणकर्माख्यानाद्, इन्द्रनाम्ना जीवात्म-प्राण-शल्यचिकित्सक-नृपत्यादीनामपि चरित्रवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम् ॥ इति तृतीयप्रपाठके द्वितीयार्धे प्रथमा दशतिः। इति तृतीयाध्याये द्वितीयः खण्डः ॥
Subject
अथ गौरमृगस्य दृष्टान्तेन परमात्मानं प्रीतिरसपानायाह्वयति।
Footnote
१. ऋ० ८।४।३, साम० १७२१। २. यथा गौरः गौरमृगः सिंहो व्याघ्रो वा अपा उदकेन कृतं प्रदेशं तडागादिकं प्रति तृष्यन् एति आगच्छति। अव इत्युपसर्गश्रुतेः क्रियापदमध्याह्रियते। अवहाय इरिणं प्रदेशम्—इति वि०। यथा गौरः गौरमृगः तृष्यन् पिपासुः अपा कृतं वर्जितम् उदकेन इरिणम् ऊषरं क्षेत्रम् अवैति गच्छति अभिगच्छति उदकभ्रान्त्या। इरिणमिति निदर्शनम् उदकाभावात् तृष्णातिशय-निदर्शनार्थम्—इति भ०। गौरः गौरमृगः तृष्यन् पिपासितः सन् अपा अद्भिरुदकैः कृतं सम्पूर्णत्वं कृतम् इरिणं निस्तृणं तटाकदेशं यथा येन प्रकारेण अवैति अभिगच्छति अभिमुखः सन् शीघ्रं गच्छति—इति सा०।