Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 251

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिर्मेध्यातिथिर्वा काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢र꣣ स्तो꣢मा꣣स ईरते । स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥२५१॥

उ꣢द् । उ꣣ । त्ये꣢ । म꣡धु꣢꣯मत्तमाः । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯सः । ई꣣रते । सत्राजि꣡तः꣢ । स꣣त्रा । जि꣡तः꣢꣯ । ध꣣नसाः꣢ । ध꣣न । साः꣢ । अ꣡क्षि꣢꣯तोतयः । अ꣡क्षि꣢꣯त । ऊ꣣तयः । वाजय꣡न्तः꣢ । र꣡थाः꣢꣯ । इ꣣व ॥२५१॥

Mantra without Swara
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥

उद् । उ । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । सत्रा । जितः । धनसाः । धन । साः । अक्षितोतयः । अक्षित । ऊतयः । वाजयन्तः । रथाः । इव ॥२५१॥

Samveda - Mantra Number : 251
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्ये) ते (मधुमत्तमाः) अतिशयेन मधुराः, (सत्राजितः) सत्यजितः। सत्रा इति सत्यनाम। निघं० ३।१०। (धनसाः) धनं सद्गुणरूपं स्तोत्रे सनन्ति प्रयच्छन्ति प्रापयन्ति ये ते। षणु दाने धातोः ‘जनसनखनक्रमगमो विट्’ अ० ३।२।६७ इति विट्। ‘विड्वनोरनुनासिकस्यात्’ अ० ६।४।४१ इत्याकारान्तादेशः। (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा येषां ते, (वाजयन्तः) स्तोतुः वाजम् आत्मबलं जनयन्तः। वाज इति बलनाम। निघं० २।९। वाजं बलं कुर्वन्तीति वाजयन्ति, शतरि वाजयन्तः। (गिरः२) अर्चनसाधनीभूताः। गृणन्ति अर्चन्ति यैस्ते। गृणातिः अर्चतिकर्मा। निघं० ३।१४। (स्तोमासः) मदीयाः, स्तोमाः, मम स्तोत्राणि (रथाः इव) विमानयानानीव (उद्-ईरते उ) उद्गच्छन्ति खलु। ईर गतौ कम्पने च अदादिः। विशेषणानि रथपक्षेऽपि योजनीयानि। रथा अपि कीदृशाः ? (सत्राजितः) सीदन्ति ये ते सत्राः समवेताः शत्रवस्तान् जयन्ति एभिस्ते। षद्लृ धातोरौणादिके ‘त्र’ प्रत्यये सत्रशब्दः सिध्यति। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (धनसाः) धनं सन्वन्ति आहरन्ति यैस्ते, (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा यैस्ते अक्षीणरक्षाः, (वाजयन्तः) अन्नादिकं देशान्तरं प्रापयितुं चेष्टमानाः। वाज इत्यन्ननाम। निघं० २।७। (मधुमत्तमाः) अतिशयमधुरगतयः ॥९॥ अत्र श्लिष्टोपमालङ्कारः ॥९॥
Essence
जगदीश्वरस्य महिमानं गातुं मदीया रसना मधुरमधुरान् स्तोमान् उदीरयति, यथा विमानचालको मधुरगतीनि विमानयानान्यूर्ध्वं नयति ॥९॥
Subject
अथ मदीयाः कीदृशाः स्तोमाः कथं परमात्मानं प्रत्युद्गच्छन्तीत्याह।
Footnote
१. ऋ–० ८।३।१५, साम० १३६२, अथ० २०।१०।१; २०।५९।१। २. ‘त्ये गिरः’ इति न संगच्छते, लिङ्गभेदात्। अतो ‘गिरः’ इति ‘स्तोमासः’ इत्यस्य विशेषणत्वेनास्माभिः स्वीकृतम्। भरतस्तु उदीरते उदीरयन्ति, स्तोमास स्तोतारः मधुमत्तमाः रसवत्तमाः गिरः स्तुतीः इति समाधत्ते। सायणः ‘गिरः’ आप्रगीताः शस्त्ररूपा वाचः, ‘स्तोमास’ प्रगीतानि बहिष्पवमानादीनि स्तोत्राणि च इति व्याचष्टे।