Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 250

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिर्मेध्यातिथिर्वा काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯ । पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥२५०॥

इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । गि꣡रः꣢꣯ । व꣣र्धन्तु । याः꣢ । म꣡म꣢꣯ । पा꣣वक꣡व꣢र्णाः । पा꣣वक꣢ । व꣣र्णाः । शु꣡च꣢꣯यः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣भि꣢ । स्तो꣡मैः꣢꣯ । अ꣣नूषत ॥२५०॥

Mantra without Swara
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥

इमाः । उ । त्वा । पुरूवसो । पुरु । वसो । गिरः । वर्धन्तु । याः । मम । पावकवर्णाः । पावक । वर्णाः । शुचयः । विपश्चितः । विपः । चितः । अभि । स्तोमैः । अनूषत ॥२५०॥

Samveda - Mantra Number : 250
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुरूवसो) बहुधन बहुवासयितर्वा इन्द्र परमेश्वर ! (इमाः उ) एताः खलु (याः मम) मदीयाः (गिरः) वाचः सन्ति ताः (त्वा) त्वाम् त्वन्महिमानम् (वर्धन्तु२) वर्धयन्तु। वृधु वृद्धौ सकर्मकोऽपि परस्मैपदी चापि वेदे बाहुल्येन प्राप्यते, लोके तु अकर्मक आत्मनेपदी च। (पावकवर्णाः३) अग्निवर्णाः, अग्निवत् तेजस्विनो ब्रह्मवर्चस्विनः, (शुचयः) शुद्धान्तःकरणाः, (विपश्चितः) विद्वांसः (स्तोमैः) स्तोत्रैः (अभि-अनूषत४) त्वाम् अभिस्तुवन्ति। यथा ते त्वां स्तुवन्ति तथाऽहमपि स्तुयामित्यर्थः ॥८॥५
Essence
अस्माभिः परमात्मनः स्तुतिप्रार्थनोपासनासु परमात्मविषयकभाषणोपदेशगुणवर्णनादौ च स्ववाचमुपयुज्य लोके परमात्मनः प्रचारो विधेयो येनाऽऽस्तिका भूत्वा सर्वे जनाः सदाचारिणः स्युः॥८॥
Subject
अथोपासकः परमात्मानमाह।
Footnote
१. ऋ० ८।३।३, य० ३३।८१, साम० १६०७, अथ० २०।१०४।१। २. वर्धन्तु। वृधिरन्तर्णीतण्यर्थो द्रष्टव्यः। वर्धयन्तु—इति वि०। ३. अग्निसमानतेजस्काः—इति सा०। ४. अत्र ‘णू स्तवने’ इत्यस्य लुङ्प्रयोगः। ‘सञ्ज्ञापूर्वको विधिरनित्यः’ इति गुणाभावः, लडर्थे लुङ् च, इति ऋ० १।६।६ भाष्ये द०। ५. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।