Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 25

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣡ग्ने꣢ यु꣣ङ्क्ष्वा꣡ हि ये तवाश्वा꣢꣯सो देव सा꣣ध꣡वः꣢ । अ꣢रं꣣ व꣡ह꣢न्त्या꣣श꣡वः꣢ ॥२५॥

अ꣡ग्ने꣢꣯ । यु꣣ङ्क्ष्वा꣢ । हि । ये । त꣡व꣢꣯ । अ꣡श्वा꣢꣯सः । दे꣣व । साध꣡वः꣢ । अ꣡र꣢꣯म् । व꣡ह꣢꣯न्ति । आ꣣श꣡वः꣢ ॥२५॥

Mantra without Swara
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥

अग्ने । युङ्क्ष्वा । हि । ये । तव । अश्वासः । देव । साधवः । अरम् । वहन्ति । आशवः ॥२५॥

Samveda - Mantra Number : 25
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) कर्मोपदेशप्रदातः (अग्ने) जगन्नायक परमेश्वर ! (ये तव) त्वदीयाः, त्वद्रचिताः (साधवः) कार्यसाधनशीलाः (आशवः) वेगवन्तः। साध्नुवन्ति कार्याणीति साधवः, अश्नुवते सद्योऽध्वानमित्याशवः। साध संसिद्धौ, अशूङ् व्याप्तौ, इति धातुभ्यां—कृवापाजिमिस्वदिसाध्यशूभ्य उण्।’ उ० १।१ इत्युण्। (अश्वासः) इन्द्रिय-प्राण-मनोबुद्धिरूपास्तुरङ्गाः। ‘आज्जसेरसुक्।’ अ० ७।१।५० इति जसोऽसुगागमः। (अरम्) पर्याप्तम् (वहन्ति) अस्मान् निर्धारितं लक्ष्यं प्रति प्रापयन्ति, तान् (हि) अवश्यम् (युङ्क्ष्व) कर्मणि योजय। संहितायां, द्व्यचोऽतस्तिङः।’ अ० ६।३।१३५ इति दीर्घः ॥५॥२
Essence
हे परमात्मदेव ! कृतकर्मफलभोगार्थं नूतनकर्मसम्पादनार्थं चास्मभ्यं शरीररथा इन्द्रियप्राणमनोबुद्धिरूपा अश्वाश्च त्वया प्रदत्तास्सन्ति। अलसा भूत्वा वयं कदाचिन्निरुत्साहाः निष्कर्माणश्च भवामः। त्वं कृपयाऽस्माकमिन्द्रियप्राणादिरूपानश्वान् कर्मणि योजय, येन वैदिकं कर्मयोगमाश्रयमाणा वयं सर्वत्र सततमग्रगामिनः स्याम ॥५॥
Subject
अथ पुनः परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ६।१६।४३, य० १३।३६। उभयत्र युङ्क्ष्वा, वहन्त्याशवः इत्यनयोः स्थाने क्रमेण युक्ष्वा, वहन्ति मन्यवे इति पाठः, साम० १३८३। २. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये शिल्पविद्यापक्षे यजुर्भाष्ये च राजविद्यापक्षे व्याख्यातः।