Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 249

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिर्मेध्यातिथिर्वा काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्र꣣मि꣢द्दे꣣व꣡ता꣢तय꣣ इ꣡न्द्रं꣢ प्रय꣣꣬त्य꣢꣯ध्व꣣रे꣢ । इ꣡न्द्र꣢ꣳ समी꣣के꣢ व꣣नि꣡नो꣢ हवामह꣣ इ꣢न्द्रं꣣ ध꣡न꣢स्य सा꣣त꣡ये꣢ ॥२४९॥

इ꣡न्द्र꣢꣯म् । इत् । दे꣣व꣡ता꣢तये । इ꣡न्द्र꣢꣯म् । प्र꣣यति꣢ । प्र꣣ । यति꣢ । अ꣣ध्वरे꣢ । इ꣡न्द्र꣢꣯म् । स꣣मीके꣢ । स꣣म् । ईके꣢ । व꣣नि꣡नः꣢ । ह꣣वामहे । इ꣡न्द्र꣢म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ ॥२४९॥

Mantra without Swara
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । इन्द्रꣳ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥

इन्द्रम् । इत् । देवतातये । इन्द्रम् । प्रयति । प्र । यति । अध्वरे । इन्द्रम् । समीके । सम् । ईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥२४९॥

Samveda - Mantra Number : 249
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रम् इत्) इन्द्राख्यं जगदीश्वरमेव, सभापतिं राजानमेव वा (देवतातये) देवजनकल्याणार्थं यद्वा विद्वज्जनैः विस्तार्यमाणाय यज्ञाय।२ देवशब्दात् ‘सर्वदेवात् तातिल्’ अ० ४।४।१४२ इति स्वार्थिकस्तातिल् प्रत्ययः। तस्य लित्वात् ‘लिति’ अ० ६।१।१९३ इति प्रत्ययात् पूर्वमुदात्तः। यद्वा देवैः विद्वद्भिः तातिः विस्तारो यस्य तस्मै यज्ञाय३। देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७। बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरः।(हवामहे) आह्वयामः। (इन्द्रम्) इन्द्राख्यं जगदीश्वरं राजानं वा (प्रयति) प्रवर्तमाने। प्र पूर्वाद् इण् गतौ धातोः शतरि सप्तम्येकवचने रूपम्। (अध्वरे) हिंसादिदोषरहिते यज्ञे (हवामहे) आह्वयामः। (इन्द्रम्) इन्द्राख्यं जगदीश्वरं राजानं वा (समीके) देवासुरसंग्रामे। समीके संग्रामनाम। निघं० २।१७। (वनिनः) स्तुतिमन्तः प्रार्थनावन्तः प्रकाशवन्तश्च वयम्। वनानि स्तुतयः प्रार्थनाः रश्मयो वा येषां सन्तीति ते वनिनः। वन शब्दे, वन सम्भक्तौ, वनु याचने। वनम् इति रश्मिनाम। निघं० १।५। (हवामहे) आह्वयामः। (इन्द्रम्) इन्द्राख्यं जगदीश्वरं राजानं वा (धनस्य) आध्यात्मिकस्य भौतिकस्य च ऐश्वर्यस्य (सातये) प्राप्तये (हवामहे) आह्वयामः ॥७॥ अत्र श्लेषालङ्कारः। ‘इन्द्र’ शब्दस्यासकृदावृत्तौ लाटानुप्रासोऽलङ्कारः ॥७॥
Essence
जगति राष्ट्रे वा विविधसत्कार्याणां साफल्याय, विविधैश्वर्याणां च प्राप्तये परमात्मा सभापती राजा च भूयो भूयः सेवनीयः ॥७॥
Subject
अथेन्द्रनाम्ना परमेश्वरो राजा चाहूयते।
Footnote
१. ऋ० ८।३।५, अथ० २०।११८।३, साम० १५८७। २. देवैः स्तोतृभिः तायते विस्तार्यते इति देवतातिर्यज्ञः—इति सा०। ३. अयं द्वितीयोऽर्थः पदकारस्य न सम्मतः, यतोऽसौ ‘देव तातये’ इत्येवं न विगृह्णाति। तेन तातिल् प्रत्यय एव तस्याभिमत इति ज्ञेयम्।