Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 248

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्व꣡मि꣢न्द्र य꣣शा꣡ अ꣢स्यृजी꣣षी꣡ शव꣢꣯स꣣स्प꣡तिः꣢ । त्वं꣢ वृ꣣त्रा꣡णि꣢ हꣳस्यप्र꣣ती꣢꣫न्येक꣣ इ꣢त्पु꣣र्व꣡नु꣢त्तश्चर्षणी꣣धृ꣡तिः꣢ ॥२४८॥

त्व꣢म् । इ꣣न्द्र । यशाः꣢ । अ꣣सि । ऋजीषी꣢ । श꣡व꣢꣯सः । प꣡तिः꣢꣯ । त्वम् । वृ꣣त्रा꣡णि꣢ । हँ꣣सि । अप्रती꣡नि꣢ । अ꣣ । प्रती꣡नि꣢ । ए꣡कः꣢꣯ । इत् । पु꣣रु꣢ । अ꣡नु꣢꣯त्तः । अ । नु꣣त्तः । चर्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ ॥२४८॥

Mantra without Swara
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । त्वं वृत्राणि हꣳस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥

त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पतिः । त्वम् । वृत्राणि । हँसि । अप्रतीनि । अ । प्रतीनि । एकः । इत् । पुरु । अनुत्तः । अ । नुत्तः । चर्षणीधृतिः । चर्षणि । धृतिः ॥२४८॥

Samveda - Mantra Number : 248
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमेश्वर राजन् वा ! (त्वम् यशाः२) यशस्वी (असि) वर्तसे। (ऋजीषी३) ऋजु सरलं धर्ममार्गमिच्छतीति ऋजीषी सरलगुणकर्मस्वभावो वा (शवसः पतिः) बलस्य स्वामी च असि। (त्वम् एकः इत्) एकाकी एव (पुरु) पुरूणि बहूनि। पुरु इति बहुनाम। निघं० ३।१। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शिलोपः। (अप्रतीनि४) अप्रतिद्वन्द्वीनि (वृत्राणि) आन्तरिकान् बाह्यांश्च पापाचारान् शत्रून् (हंसि) दण्डयसि विनाशयसि वा। त्वम् (अनुत्तः) न केनापि नुत्तः बलात् प्रेरितः सन्। नुत्तः इति नुद प्रेरणे इत्यस्य निष्ठायां रूपम्। (चर्षणीधृतिः) मनुष्याणां धारकश्चासि। चर्षणय इति मनुष्यनाम। निघं० २।३। ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥
Essence
यथा परमेश्वरो यशस्वी, ऋजुमार्गसेवी, बलवान्, पापादीनां हन्ता, स्वयं शुभकार्येषु प्रवर्त्तमानो मानवानां धारकश्चास्ति तथैव राजभिः प्रजाभिश्च भवितव्यम् ॥६॥
Subject
अथेन्द्रस्य नाम्ना परमात्मनो नृपस्य च महिमानं वर्णयति।
Footnote
१. ऋ० ८।९०।५। ‘शवसस्पते’ इति ‘इदनुत्ता चर्षणीधृता’ इति च पाठः। साम० १४११। २. यशः अन्नं कीर्तिः वा। अन्तर्णीतमत्वर्थं चेदं द्रष्टव्यम्। यशस्वी अन्नवान् कीर्तिमान् वा—इति वि०। यशस्वी असि, यशः शब्दान्मत्वर्थीयलोपः—इति भ०। ३. (ऋजीषिणम्) ऋजूनां सरलानां धार्मिकाणां जनानामीषितुं शीलम् इति ऋ० ६।४२।२ भाष्ये, (ऋजीषी) सरलगुणकर्मस्वभावः इति ऋ० ६।२४।१ भाष्ये, (ऋजीषी) ऋजुनीतिः इति च ऋ० ४।१६।१। भाष्ये द०। यत् सोमस्य पूयमानस्यातिरिच्यते तदृजीषम्, अपार्जितं भवति इति यास्कः। निरु० ५।१२। ४. अप्रतिद्वन्द्वीनि—इति भ०। बलिभिरप्यप्रतिगतानि—इति सा०।