Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 247

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्व꣢म꣣ङ्ग꣡ प्र श꣢꣯ꣳसिषो दे꣣वः꣡ श꣢विष्ठ꣣ म꣡र्त्य꣢म् । न꣢꣫ त्वद꣣न्यो꣡ म꣢घवन्नस्ति मर्डि꣣ते꣢न्द्र꣣ ब्र꣡वी꣢मि ते꣣ व꣡चः꣢ ॥२४७॥

त्व꣢म् । अ꣣ङ्ग꣢ । प्र । शँ꣣सिषः । देवः꣢ । श꣣विष्ठ । म꣡र्त्य꣢꣯म् । न । त्वत् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । म꣣घवन् । अस्ति । मर्डिता꣢ । इ꣡न्द्र꣢꣯ । ब्र꣡वी꣢꣯मि । ते꣣ । व꣡चः꣢꣯ ॥२४७॥

Mantra without Swara
त्वमङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥

त्वम् । अङ्ग । प्र । शँसिषः । देवः । शविष्ठ । मर्त्यम् । न । त्वत् । अन्यः । अन् । यः । मघवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः ॥२४७॥

Samveda - Mantra Number : 247
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अङ्ग) हे (शविष्ठ) बलवत्तम परमात्मन् राजन् वा ! शवस् इति बलनाम। निघं–० २।९। ततो भूम्न्यर्थे मतुप्। तत इष्ठन्। ‘विन्मतोर्लुक्। अ० ५।३।६५’ इति मतुपो लुक्। (देवः) दिव्यगुणयुक्तः (त्वम् मर्त्यम्) मनुष्यम् (प्रशंसिषः२) प्रशंसाभाजनं कुरु, प्रशंसां कुर्वन्नुत्साहय वा। प्र पूर्वात् शंसु स्तुतौ धातोर्लेटि ‘सिब्बहुलं लेटि’। अ० ३।१।३४ इति सिबागमः। हे (मघवन्) ऐश्वर्यशालिन् ! (त्वत् अन्यः) त्वद्भिन्नः कोऽपि (मर्डिता) मम सुखयिता (न अस्ति) नो विद्यते। हे इन्द्र विघ्नविदारक सिद्धिदायक परमेश्वर राजन् वा ! अहम् (ते) तुभ्यम् (वचः) स्तुतिवचनं (ब्रवीमि) वच्मि ॥५॥३ अत्र अर्थश्लेषालङ्कारः ॥५॥
Essence
हे बलिनां बलिष्ठ सकलदिव्यगुणपारावार सकलसम्पत्तिशालिन् न्यायविद्याविवेकदयाद्यैश्वर्यनिधे परमात्मन् राजन् वा ! कदाचिदधर्माचरणे संलग्ना वयं जगति निन्दिता भवामः। त्वं कृपयाऽस्मान् धर्मे नियुज्य शुभकर्मसु समुत्साह्य च प्रशंसाभाजः कुरु ॥५॥
Subject
अथ परमात्मा राजा च प्रार्थ्यते।
Footnote
१. ऋ० १।८४।१९, य० ६।३७, साम० १७२३। २. प्रशंसिषः प्रशस्तं करोषि—इति वि०। प्रशंसिषः इति अन्तर्णीतण्यर्थः। प्रशंसय प्रशस्तं कुरु—इति भ०। सम्यगनेन स्तुतमिति प्रशंस—इति सा०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ईश्वरसभाध्यक्षयोर्विषये, यजुर्भाष्ये च ‘प्रजाजनाः कृतं सभापतिं कथं प्रशंसेयुरिति’ विषये व्याख्यातः।