Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 246

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ म꣣न्द्रै꣡रि꣢न्द्र꣣ ह꣡रि꣢भिर्या꣣हि꣢ म꣣यू꣡र꣢रोमभिः । मा꣢ त्वा꣣ के꣢ चि꣣न्नि꣡ ये꣢मु꣣रि꣢꣫न्न पा꣣शि꣢꣫नोऽति꣣ ध꣡न्वे꣢व꣣ ता꣡ꣳ इ꣢हि ॥२४६॥

आ꣢ । म꣣न्द्रैः꣢ । इ꣣न्द्र । ह꣡रि꣢꣯भिः । या꣣हि꣢ । म꣣यू꣡र꣢रोमभिः । म꣣यू꣡र꣢ । रो꣣मभिः । मा꣢ । त्वा꣣ । के꣢ । चित् । नि꣢ । ये꣣मुः । इ꣢त् । न । पा꣣शि꣡नः꣢ । अ꣡ति꣢꣯ । ध꣡न्व꣢꣯ । इ꣣व । ता꣢न् । इ꣣हि ॥२४६॥

Mantra without Swara
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताꣳ इहि ॥

आ । मन्द्रैः । इन्द्र । हरिभिः । याहि । मयूररोमभिः । मयूर । रोमभिः । मा । त्वा । के । चित् । नि । येमुः । इत् । न । पाशिनः । अति । धन्व । इव । तान् । इहि ॥२४६॥

Samveda - Mantra Number : 246
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! त्वम् (मन्द्रैः) आनन्ददायकैः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु इति धातोः ‘स्फायितञ्चि०’ उ० २।१३ इति रक्प्रत्ययः। (मयूर-रोमभिः) मयूराणां बर्हिणां बर्हाणीव रोमाणि येषां तैः मयूरबर्हवन्मृदुभिरित्यर्थः (हरिभिः) प्राणैः। प्राणो वै हरिः स हि हरति। कौ० ब्रा० १७।१। (आ याहि) अस्मद्धृदयसदनम् आगच्छ। (त्वा) आगच्छन्तं त्वाम् (केचित्) केऽपि योगमार्गबाधका व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्ध-भूमिकत्वानवस्थित-त्वरूपा अन्तरायाः (मा नियेमुः) न नियच्छन्तु, निवारयितुं न शक्नुयुः। नि पूर्वाद् यम उपरमे धातोर्लोडर्थे लिट्। (न) यथा (पाशिनः) पाशपाणयो व्याधाः (इत्२) गतिमत्, भूमौ गच्छत् गगने उड्डयमानं वा पशुपक्ष्यादिकं नियच्छन्ति। एति गच्छतीति इत्। इण् गतौ धातोः क्विपि नपुंसि द्वितीयैकवचने रूपम्। त्वम् तान् प्रतिबन्धकान् (धन्व३ इव) अन्तरिक्षमिव। धन्व इत्यन्तरिक्षनाम। निघं० १।३। धन्व अन्तरिक्षं, धन्वन्त्यस्मादापः। निरु० ५।५। (अति इहि) अतिक्रम्य आगच्छ। यथा विमानैरन्तरिक्षमतिक्रम्य कश्चिदागच्छति तथैव तान् बाधकानतिक्रम्य त्वमस्मद्धृदयमागच्छेति भावः। यद्वा (धन्व इव) धनुरिव, लक्षणया धनुर्धर इव, तान् बाधकान् अतिक्रम्य आगच्छ। अथ द्वितीयः—राजपरः। हे (इन्द्र) शत्रुविदारक वीर राजन् ! त्वम् (मन्द्रैः४) स्तुत्यैः मन्द्रस्वरैर्वा (मयूररोमभिः) मयूररोमवन्मूदूनि रोमाणि केसराः येषां तैः (हरिभिः) प्रशस्तैः अश्वैः रथे नियुक्तैः (आ याहि) संकटकाले प्रजारक्षणार्थम् आगच्छ। (न) यथा (इत्) गच्छत् उड्डयमानं वा पशुपक्ष्यादिकम् (पाशिनः) पाशहस्ता व्याधा नियच्छन्ति तथा (त्वा) त्वाम् (केचित्) केऽपि शत्रवः (मा नियेमुः) न निवारयितुं शक्नुयुः। (धन्व इव) धनुरिव त्वम् (तान्) शत्रून् (अति इहि) अतिक्रमस्व ॥४॥५ अत्रोपमालङ्कारः श्लेषश्च। रेफस्य मकारनकारयोश्चासकृदावृत्तौ वृत्त्यनुप्रासः। ‘न्द्रै, न्द्र’ ‘न्नि, न्न’ इति छेकानुप्रासः ॥४॥
Essence
प्राणानां स्वरूपं मयूररोमवन्मृदु वर्त्तते। अत एव प्राणविद्या मधुविद्येति नाम्ना प्रसिद्धा। प्राणायामद्वारा वयं परमात्मानं स्वहृदयाभ्यन्तरे प्रकटयितुं शक्नुमः। प्रकटीकृतः सोऽस्माकं योगसाधनायां समागच्छतो विघ्नान् निरस्यति। तथैव प्रजाजनैराहूतो राजा सर्वान् शत्रून् पराजित्य राष्ट्रमुन्नयति ॥४॥
Subject
अथेन्द्रो निर्बाधमस्माकं समीपे समागच्छत्वित्याह।
Footnote
१. ऋ० ३।४५।१, य० २०।५३, अथ० ७।११७।१। सर्वत्र ‘नियेमुरिन्न’ इत्यत्र ‘नियमन् विं न’ इति पाठः। साम० १७१८। २. इदिति पादपूरणः—इति वि०। इत् एव—इति भ०। अस्माभिस्तु ऋचि यजुषि च ‘इत्’ इत्यस्य स्थाने ‘विं न’ इति पाठाद् ‘इत्’ इति नामपदं स्वीकृतम्। स्वरे न कश्चिद् विरोधः। ३. धन्व धन्वना अन्तरिक्षेण। अथवा धन्वना धनुषा। अस्त्रैर्विजित्य तान् इह आगच्छ—इति वि०। धन्वेव मरुदेशमिव पिपासितः—इति भ०। यथा पान्थाः धन्व मरुदेशं शीघ्रमतिगच्छन्ति तद्वद् गमनप्रतिबन्धकारिणस्तानतीत्य शीघ्रम् एहि आगच्छ—इति सा०। ४. मन्द्रैः मदनशीलैः—स्तुत्यैर्या—इति भ०। मन्द्रस्वरैः गम्भीरस्वरैः—इति वि०। ५. दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च मन्त्रोऽयं राजपक्षे व्याख्यातः।