Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 245

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ त्वा꣢ स꣣ह꣢स्र꣣मा꣢ श꣣तं꣢ यु꣣क्ता꣡ रथे꣢꣯ हिर꣣ण्य꣡ये꣢ । ब्र꣣ह्म꣢युजो꣣ ह꣡र꣢य इन्द्र के꣣शि꣢नो꣣ व꣡ह꣢न्तु꣣ सो꣡म꣢पीतये ॥२४५॥

आ꣢ । त्वा꣣ । सह꣡स्र꣢म् । आ । श꣣त꣢म् । यु꣢क्ताः꣢ । र꣡थे꣢꣯ । हि꣣रण्य꣡ये꣢ । ब्र꣣ह्मयु꣡जः꣢ । ब्र꣣ह्म । यु꣡जः꣢꣯ । ह꣡र꣢꣯यः । इ꣣न्द्र । केशि꣡नः꣢ । व꣡ह꣢꣯न्तु । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥२४५॥

Mantra without Swara
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥

आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्मयुजः । ब्रह्म । युजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमपीतये । सोम । पीतये ॥२४५॥

Samveda - Mantra Number : 245
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। हे (इन्द्र) परमात्मन् ! (हिरण्यये) हिरण्मये हिरण्यवज्ज्योतिर्मये। ज्योतिर्हिरण्यम्। श० ४।३।४।२१। ‘ऋत्व्य- वास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि’ अ० ६।४।१७५ इति निपातनाद् हिरण्यशब्दाद् विहितस्य मयटो मशब्दस्य लोपः। (रथे) शरीररूपे स्यन्दने (युक्ताः) नियुक्ताः (ब्रह्मयुजः) ब्रह्मणा सह योजयन्तीति तादृशाः परमेश्वरसाक्षात्कारसाधनभूताः (केशिनः) प्रकाशवन्तः प्रकाशकाश्च। केशी, केशा रश्मयः तैस्तद्वान् भवति, काशनाद् वा प्रकाशनाद् वा। निरु० १२।२६। (सहस्रम्) सहस्रसंख्याकाः (हरयः) आहरणशीलाः सात्त्विकचित्तवृत्तिरूपाः यद्वा प्राणरूपा अश्वाः। प्राणानां सहस्रत्वं तावत् ‘स॒हस्रऺ प्रा॒णा मय्या यऺतन्ताम्’ अथ० १७।१।३० इति श्रुतेः। (सोमपीतये) उपासनायज्ञाय। सोमस्य श्रद्धारसस्य पीतिः पानं यस्मिन् स सोमपीतिः उपासनायज्ञः तस्मै। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (त्वा) त्वाम् (आवहन्तु) हृदयसदने आनयन्तु प्रकटीकुर्वन्तु। (शतम्) शतसंख्याकाः हरयः सात्त्विकचित्तवृत्तिरूपाः प्राणरूपा वा अश्वाः त्वाम् (आ) आवहन्तु आनयन्तु प्रकटीकुर्वन्तु। पूर्वं सहस्रमित्युक्त्वा पश्चात् शतम् इति वचनेन ब्रह्मप्राप्त्यर्थं शनैः शनैः सात्त्विकीनां चित्तवृत्तीनामपि निरोधः सूचितो भवति। एवमेव पूर्वं श्वासोच्छ्वासा अधिका भवन्ति, क्रमेण चाभ्यासात् तत्संख्या न्यूना भवति ॥ अथ द्वितीयः—राष्ट्रपरः। हे (इन्द्र) राजन् ! (हिरण्यये) ज्योतिर्मये (रथे) राष्ट्ररूपे रथे (युक्ताः) नियुक्ताः (ब्रह्मयुजः) ब्रह्मभिर्वेदविद्भिः निर्वाचनाधिकारिभिः प्रेरिताः (केशिनः) प्रकाशवन्तो ज्ञानिनः (सहस्रम्) सहस्रसंख्याकाः (हरयः) मतदानाधिकारिणो मनुष्याः। हरय इति मनुष्यनामसु पठितम्। निघं० २।३। (सोमपीतये) सोमस्य सोमोपलक्षितायाः सुखशान्तेः पीतिः रक्षणं यस्मिन् तस्मै राष्ट्रसंचालनयज्ञाय (त्वा) त्वां राजानम् (आवहन्तु) निर्वाच्य राजपदे आनयन्तु, (शतम्) शतसंख्याकाः हरयः निर्वाचका मनुष्याः त्वां राजपदे (आ) आवहन्तु निर्वाच्य आनयन्तु। पूर्वं सहस्रैरधिकैर्वा प्रजाजनैर्मतदानेन केचन विधायका निर्वाच्यन्ते, तदुत्तरं तैर्विधायकैः राजा निर्वाच्यते इति सहस्र-शत-शब्दाभ्यां सूच्यते ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
यथा योगिभिः प्रकाशपूर्णैः सात्त्विकचित्तभावैः परमात्मा प्राप्यते, तथा विवेकशीलैः प्रजाजनैर्मतदानेन सुयोग्यो राजा प्राप्तव्यः ॥३॥
Subject
अथ हरयः इन्द्रमावहन्त्वित्युच्यते।
Footnote
१. ऋ० ८।१।२४, साम० १३९१।