Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 244

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣢ ऋ꣣ते꣡ चि꣢द꣣भिश्रि꣡षः꣢ पु꣣रा꣢ ज꣣त्रु꣡भ्य꣢ आ꣣तृ꣡दः꣢ । स꣡न्धा꣢ता स꣣न्धिं꣢ म꣣घ꣡वा꣢ पुरू꣣व꣢सु꣣र्नि꣡ष्क꣢र्ता꣣ वि꣡ह्रु꣢तं꣣ पु꣡नः꣢ ॥२४४॥

यः꣢ । ऋ꣣ते꣢ । चि꣣त् । अभिश्रि꣡षः꣢ । अ꣣भि । श्रि꣡षः꣢꣯ । पु꣣रा꣢ । ज꣣त्रु꣡भ्यः꣢ । आ꣣तृ꣡दः꣢ । आ꣣ । तृ꣡दः꣢꣯ । स꣡न्धा꣢꣯ता । स꣣म् । धा꣣ता । सन्धि꣢म् । स꣣म् । धि꣢म् । म꣣घ꣡वा꣢ । पु꣣रूव꣡सुः꣢ । पु꣣रु । व꣡सुः꣢꣯ । नि꣡ष्क꣢꣯र्ता । निः । क꣣र्त्ता । वि꣡ह्रु꣢꣯तम् । वि । ह्रु꣣तम् । पु꣢नरि꣡ति꣢ ॥२४४॥

Mantra without Swara
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥

यः । ऋते । चित् । अभिश्रिषः । अभि । श्रिषः । पुरा । जत्रुभ्यः । आतृदः । आ । तृदः । सन्धाता । सम् । धाता । सन्धिम् । सम् । धिम् । मघवा । पुरूवसुः । पुरु । वसुः । निष्कर्ता । निः । कर्त्ता । विह्रुतम् । वि । ह्रुतम् । पुनरिति ॥२४४॥

Samveda - Mantra Number : 244
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः अभिश्रिषः२) संश्लेषणद्रव्यात् (ऋते चित्) विनैव (जत्रुभ्यः३) ग्रीवास्थिभ्यः (आतृदः) आतर्दनात् कण्ठच्छेदात्। हिंसार्थात् तृदधातोः ‘सृपितृदोः कसुन्’ अ० ३।४।१७ इति भावलक्षणे कसुन् प्रत्ययः। (पुरा) पूर्वमेव (सन्धिम्) सन्धातव्यम् अवयवम् (सन्धाता) संयोजयिता भवति, शस्त्रादिना कृत्तेऽपि कण्ठैकदेशे कृत्तं भागं प्राकृतिकरूपेण संपूर्य पुनः स्वस्थं करोति, येन शीर्षपतनं न भवतीत्यर्थः। सः (पुरूवसुः) बहूनां शरीराङ्गानाम् यथास्थानं वासयिता (मघवा) चिकित्साविज्ञानरूपधनसम्पन्नः इन्द्रः परमेश्वरः जीवः प्राणः शल्यचिकित्सको वा। मघमिति धननाम। निघं० २।१०। ‘छन्दसीवनिपौ च वक्तव्यौ’ अ० ५।२।१२२ वा० इति वनिप्। (विह्रुतम्४) वक्रीभूतमपि अङ्गम्। ह्वृ कौटिल्ये, निष्ठायां ‘ह्रु ह्वरेश्छन्दसि’ अ० ७।२।३१ इति धातोः ह्रुः आदेशः। (पुनः) भूयोऽपि (निष्कर्ता) संस्कर्ता भवति ॥२॥ अत्र संश्लेषणद्रव्यरूपकारणाभावेऽपि सन्धानरूपकार्योत्पत्तिवर्णनाद् विभावनालङ्कारः ॥२॥
Essence
अहो परमेश्वरस्य कीदृशं शरीररचनाचातुर्यम्। यद्यसौ संश्लेषणद्रव्येण विनैव मध्ये सन्धिं कृत्वा शिरः कबन्धेन सुदृढं न समयोजयिष्यत् तर्हि कदापि क्वचिदपि शिरः कबन्धाच्छिन्नं भूत्वा पृथगभविष्यत्। एतदपि परमेश्वरस्यैव कर्तृत्वं यच्छरीरस्य किमप्यङ्गं यदि कदाचिद् विद्धं वक्रं वा जायते तदा जीवात्मनः प्राणस्य च साहाय्येन शरीरस्य स्वाभाविकक्रियया च पुनरपि तत् प्ररोहति प्रकृतिं चापद्यते। कुशलः शल्यचिकित्सकोऽप्येतस्मिन् कर्मणि परमेश्वरमनुकरोति। संग्रामे यदि शत्रोः शस्त्रप्रहारेण कस्यचिद् योद्धुर्गलैकदेशः कृत्यते तदा स कृत्तं भागं सूच्या संसीव्यौषधिं संलिप्य च पुनः स्वस्थं करोति। दुर्घटनादिकारणाद् यदि कस्यचिदङ्गं विकृतं वक्रं वा जायते तदा तदप्युचितैरुपायैः स संस्करोति ॥२॥
Subject
अथ परमात्मनः जीवात्मनः प्राणस्य शल्यचिकित्सकस्य च कर्तृत्वं वर्णयन्नाह।
Footnote
१. ऋ० ८।१।१२। अथ–० १४।२।४७ ऋषिका सूर्याशावित्री, देवता आत्मा। २. अभिश्लिषः अभिश्लेषकात् श्लेष्मणः। येन छिन्नं संश्लिष्यते तत् श्लेष्म—इति भ०। ३. जतृभ्यः ग्रीवानाडीभ्य इत्यर्थः—इति वि०। जतृभ्यः असंग्रीवाभ्यां मध्ये नाडीभ्यः—इति भ०। जत्रुभ्यः ग्रीवाभ्यः—इति सा०। ४. विह्रुतम्। विहुतस्य इतश्चेतश्च विक्षिप्तावयवस्य भग्नस्येत्यर्थः—इति वि०। विच्छिन्नम्—इति भ०, सा०।