Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 243

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
न꣢ कि꣣ष्टं꣡ कर्म꣢꣯णा नश꣣द्य꣢श्च꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् । इ꣢न्द्रं꣣ न꣢ य꣣ज्ञै꣢र्वि꣣श्व꣡गू꣢र्त꣣मृ꣡भ्व꣢स꣣म꣡धृ꣢ष्टं धृ꣣ष्णु꣡मोज꣢꣯सा ॥२४३॥

नः꣢ । किः꣣ । तम्꣢ । क꣡र्म꣢꣯णा । न꣣शत् । यः꣢ । च꣣का꣡र꣢ । स꣣दा꣡वृ꣢धम् । स꣣दा꣢ । वृ꣣धम् । इ꣡न्द्र꣢꣯म् । न । य꣣ज्ञैः꣢ । र्वि꣣श्व꣡गू꣢र्तम् । वि꣣श्व꣢ । गू꣣र्तम् । ऋ꣡भ्व꣢꣯सम् । अ꣡धृ꣢꣯ष्टम् । अ । धृ꣣ष्टम् । धृष्णु꣢म् । ओ꣡ज꣢꣯सा ॥२४३॥

Mantra without Swara
न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥

नः । किः । तम् । कर्मणा । नशत् । यः । चकार । सदावृधम् । सदा । वृधम् । इन्द्रम् । न । यज्ञैः । र्विश्वगूर्तम् । विश्व । गूर्तम् । ऋभ्वसम् । अधृष्टम् । अ । धृष्टम् । धृष्णुम् । ओजसा ॥२४३॥

Samveda - Mantra Number : 243
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
यः मनुष्यः (चकार) महत्त्वपूर्णानि कर्माणि करोति, सोऽपि (तम्) प्रसिद्धम् (सदावृधम्) सदा वर्धयितारम्, (विश्वगूर्तम्२) सर्वैः स्तुतम्। गूर्तम् इति गृणातेः स्तुत्यर्थस्य निष्ठायां रूपम्। ‘बहुलं छन्दसि’ अ० ७।१।१०३ इति धातोः ऋकारस्य उकारादेशः। (ऋभ्वसम्३) उरुभूतम्, सूर्यकिरणानां चन्द्रादिलोकेषु प्रक्षेप्तारं वा। ऋभ्वम् उरुभूतम् इति यास्कः। नि० ११।१९। ऋभ्व एव ऋभ्वसः, स्वार्थे बाहुलकादौणादिकोऽसच् प्रत्ययः। यद्वा ऋभवः सूर्यरश्मयः, तान् पृथिवीचन्द्रमङ्गलादिलोकेषु अस्यति क्षिपतीति तम्। आदित्यरश्मयोऽपि ऋभव उच्यन्ते इति निरुक्तम्। ११।१४। (अधृष्टम्) केनापि अनभिभूतम्, (ओजसा) स्वबलेन (धृष्णुम्) कामादिशत्रूणां धर्षकम् (इन्द्रम्) परमेश्वरम् (नकिः) नैव (कर्मणा) वीरतापूर्णेन कृत्येन, (न) नापि (यज्ञैः) परोपकारादिभिः (नशत्) व्याप्नोति, तत्तुल्यो भवितुर्महति। नशत् इति व्याप्तिकर्मसु पठितम्। निघं० २।१८। ॥१॥
Essence
जगति परमेश्वरस्य यानि वीरकृत्यानि परोपकारकर्माणि च सन्ति तेषु तत्तुल्यस्तदधिको वान्यः कोऽपि न जातो न जनिष्यते ॥१॥
Subject
अथ परमात्मनो महिमानमाह।
Footnote
१. ऋ० ८।७०।३, अथ० २०।९२।१८। उभयत्र ‘धृष्णुमोजसा’ इत्यत्र ‘धृष्ण्वोजसम्’ इति पाठः। साम० ११५५। २. विश्वैः स्तुतम्, गृणातेर्गूर्तः—इति भ०। सर्वैः स्तुतम्—इति सा०। ३. महान्तम्—इति वि०, सा०। महान्तम्, ऋभु भवति इति ऋभ्वसः—इति भ०। (ऋभ्वसम्) उरु भासमानम्। उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः—इति ऋ० १।५६।१ भाष्ये सा०।