Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 242

1875 Mantra
Devata- इन्द्रः Rishi- प्रगाथो घौरः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
मा꣡ चि꣢द꣣न्य꣡द्वि श꣢꣯ꣳसत꣣ स꣡खा꣢यो꣣ मा꣡ रि꣢षण्यत । इ꣢न्द्र꣣मि꣡त्स्तो꣢ता꣣ वृ꣡ष꣢ण꣣ꣳ स꣡चा꣢ सु꣣ते꣡ मुहु꣢꣯रु꣣क्था꣡ च꣢ शꣳसत ॥२४२॥

मा꣢ । चि꣣त् । अन्य꣢त् । अ꣣न् । य꣢त् । वि । शँ꣣सत । स꣡खा꣢꣯यः । स । खा꣣यः । मा꣢ । रि꣣षण्यत । इ꣡न्द्र꣢꣯म् । इत् । स्तो꣣त । वृ꣡ष꣢꣯णम् । स꣡चा꣢꣯ । सु꣣ते꣢ । मु꣡हुः꣢꣯ । उ꣣क्था꣢ । च꣣ । शँसत ॥२४२॥

Mantra without Swara
मा चिदन्यद्वि शꣳसत सखायो मा रिषण्यत । इन्द्रमित्स्तोता वृषणꣳ सचा सुते मुहुरुक्था च शꣳसत ॥

मा । चित् । अन्यत् । अन् । यत् । वि । शँसत । सखायः । स । खायः । मा । रिषण्यत । इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शँसत ॥२४२॥

Samveda - Mantra Number : 242
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सखायः) हे समानख्यानाः सुहृदः ! यूयम् (अन्यत्) इतरत् किमपि प्रस्तरप्रतिमानदीशैलादिकम् (मा चित्) नैव (विशंसत)उपास्यत्वेन अर्चत। शंसतिः अर्चतिकर्मा। निघं० ३।१४। (मा रिषण्यत२) अनुपास्यानामुपासनेन रिष्टा हिंसिता न भवत। रिष हिंसायाम् धातोर्निष्ठायां रिष्ट इति जाते, रिष्टम् आत्मन इच्छति रिषण्यति। क्यचि ‘दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति। अ० ७।४।३६’ इति रिष्टस्य रिषण्भावो निपात्यते। (सुते) ज्ञानकर्मभक्तीनां रसेऽभिषुते सति (सचा) संभूय। सचा सहेत्यर्थः। निरु० ५।५। (वृषणम्) सुखवर्षकम् (इन्द्रम् इत्) परमेश्वरमेव (स्तोत) उपाध्वम्। स्तुत इति प्राप्ते ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तस्य तबादेशः, तस्य च पित्त्वान्ङिद्वत्त्वाभावे गुणनिषेधो न। संहितायाम् ‘द्व्यचोऽस्तिङः। अ० ६।३।१३५’ इति दीर्घः। (मुहुः) पुनः पुनः (उक्था च)स्तोत्राणि च। उक्था उक्थानि। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लोपः। (शंसत) उच्चारयत, गायत ॥१०॥
Essence
परिवारे समाजे राष्ट्रे जगति वा ये सम्मानयोग्याः सन्ति तेषां सम्मानस्तु विधेय एव, परं तेषु कश्चिदपि परमेश्वरत्वेन न पूजनीयः। नापि नदीवृक्षपर्वतादीनां जडपदार्थानां पूजा विधेया, किन्तु इन्द्रादिनामभिर्वेदेषु ख्यातः सुखवर्षक एको जगदीश्वर एव मुहुर्मुहुः स्तोतव्यः प्रार्थनीयोऽर्चनीय उपासनीयश्च ॥१०॥ अत्रेन्द्रस्य स्तुत्यर्चनाद्यर्थं जनानां प्रेरणात्, ततो भगादिप्रार्थनात्, तत्सहचराणां मरुतां चाह्वानादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिर्वेद्या ॥ इति तृतीये प्रपाठके प्रथमार्धे पञ्चमी दशतिः। इति तृतीयेऽध्याये प्रथमः खण्डः।
Subject
एकः परमेश्वर एव सर्वैरुपासनीय इत्याह।
Footnote
१. ऋ० ८।१।१, साम० १३६०, अथ० २०।८५।१ २. मा रिषण्यत क्षीणा मा भवत—इति भ०। अन्यदीयस्तोत्रोच्चारेण वृथोपक्षीणा मा भवत—इति सा०।